Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 133
________________ ११४ प्रकाश सहिता संभव एवोच्यते श्रत एवेत्यादिरपि प्रौढिवादः, सुकरासुकरसाधारणकाम्यकर्मत्यागस्य भगवतोपदिष्टत्वात् । प्रायश्चित्तान्यशेषाणीति वाक्यंनामावृत्तिपरत्वेन व्याचष्टे - कृष्णेति । उत्तरश्लोके कृत इत्युपजीव्यम् । सदापदस्य व्यवधानेन संबन्धमाह - यस्यात्मेति । वचनान्तरेति । सकृन्नामोच्चारणस्य सकलपापक्षयहेतुत्वप्रतिपादकवचनान्तरानुरो धादित्यर्थः । अष्टाक्षरेति । नारायणविद्याया इत्यर्थः । श्रीमान् पञ्चा क्षरश्च नारदादि महापुरुषानुग्रहश्च तत्सहचारितयेत्यर्थः । उत्तरो ग्रन्थः स्पष्टार्थः । तथा श्रवशेनापि यानि कीर्त्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यः सिंहस्तैर्मृगैरिवे— त्यत्रापि सद्य इति विवक्षितम् । सिंहस्तैर्मृगैरिवेत्यस्यायमर्थः - यथा कश्चिद्राजकुमारः सिंहशिशुं - परिगृह्य पञ्जरे निधाय पुष्णाति तेन च यूना परिचय - प्ररूढानुरागेण वनान्तरे विहरति तस्माच्चकितैर्वन गजव्याघ्रादितिर्मुच्यते दूरात्; तथा वदनपङ्कजस्थान्नरहरिनामधेय कण्ठीरवाद भीतैः पातकैः पुरुषः परिहियतइति । तथा यत्कीर्त्तनं यच्छ्रवणं यदर्पणंयद्वन्दनं यत्स्मरणं यदर्हणम् । लोकस्य सद्यो विधुनोति किल्बिषं - तस्मै सुभद्रश्रवसे नमो नम इति, श्रस्यार्थः – अर्पणमन्त्रात्मनिवेदनम्, अर्हणमर्चनम्, अत इह षड्भक्तयो गृह्यन्ते, ताश्च प्रत्येकं किल्विषविधूननेन संबध्यन्ते, न च ताभिर्विशिष्टं किल्बिषविधूननमेव वाक्यार्थः, तस्य फलत्वेनाविधेयत्वाद्, न च तासांपार्ष्टिकः परस्परान्वयः, क्रियात्वाद्, न चात्र चादि: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160