Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
११०
प्रकाशसहिता
"
च द्विविधं सुखप्रासिरनर्थपरिहारश्च तत्राप्यनर्थपरिहारलक्षणं हितं विध्यपेक्षितत्वं समर्पयति,
"कृते पापेऽनुतापो वै यस्य पुंसः प्रजायत इति
यो हि यस्मादनुतप्तस्तस्य तन्निवृतिरेव हितं ततश्च पापादनुतप्तस्य कीर्त्तनं हितसाधनमित्युक्ते पापक्षयसाधनमित्युक्तं भवति, परशब्दश्च केवलशब्द पर्य्यायः, कीर्त्तनमेव पुष्कलं साधनमित्यर्थः । एकमिति सकृदितिच हरिकीर्तनस्य सर्वस्यैव स्मारकत्वात् संस्मरणमित्यनुवाद:, स च प्ररोचनफलः; समीचीनं ह्येतदिति, स्वर्गकामादिपदमपि समीहितलक्षणस्य विधेः प्रथमापेक्षितसमीहित विशेषण समर्पण परमेव न पुरुषपरम्, अर्थतस्तु स्वर्गकामोऽधिकारीति मीमांसाहृदयवेदिनांनिर्णयः ।
नविहापि तर्ह्यनुतप्तस्याधिकारः प्राप्त एव ? मैवम्, अत्यन्त सुकरत्वेनान्यथाऽपि प्रवृत्तिसंभवाद्, अशाब्दत्वादेव च फलकामनायाः प्रकारान्तरेणापि प्रवृत्तस्य पापक्षयो भवेदेव |
नन्वेवं तर्ह्यस्वर्गकामस्यापि यागादौ प्रवृत्तस्य स्वर्ग: किं न स्यात् ? को वा ब्रूते प्रवृत्तस्य न स्यादिति ? किन्तु प्रवृत्तिरेव तस्मिन् फलकामनामन्तरेण न संभाव्यते; दुर्भरगरिमत्वात्, कौतूहलादिकमपि न सकलाङ्गकलापव्यापिनीं प्रवृत्तिमुत्पादयितुमलम्, अतस्तत्कामस्यैव तत्राधिकारः, इह पुनः फलाभिसंधिमन्तरेणापि स्वभावसुभगतया सुकरतया च सुलभा प्रवृत्तिरिति सर्वस्यैवाविकलवागिन्द्रियस्याधिकारः, अत एव सुकरेषु कर्मसु फलकामनां विनाऽपि प्रवृत्तिः संभवति, प्रवृत्तस्य च
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160