Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 127
________________ १०८ प्रकाशसहिता न्निवर्त्तकं पातकस्य; किं वा खसामर्थ्यात् ? तत्र यदि विधिसामर्थ्यात् तर्हि भवितव्यमुभयत्राप्यनुतापेन, अनुतप्ताएव हि प्रायश्चित्तविधावधिक्रियन्ते, यदि स्वसामर्थ्यात् तर्हि न कुत्रचिदनुतापोपयोगः, न खलु पदार्थस्वभावः पुरुषगतां योग्यतामपेक्षते, न हि तपनस्तपस्विनयनाङ्गनगतामेव तमस्तमालण्डलीमुन्मूलयति न तु चाण्डालचक्षुश्चत्वरवर्त्तमानामित्यस्ति नियमः, अपि चेह स्वमहिम्नैव पावनत्वमुचितं न तु विधिसामर्थ्याद्, विधेर्हि विधाद्वयं लिङादियुक्तं वाक्यं; लिङाद्यर्थश्च तत्र प्रथमोविधिः प्रमाणमेव, प्रमाणं च प्रमेये न कथं चिदविद्यमानं महिमानमुत्पादयति, अपि तु यथाऽवस्थितमेव वस्तुतत्त्वमनवगतमवगमयत्येव, उक्तं हि मीमांसाभाष्यकृद्भिः " उपायं तु न वेद तस्योपायः कथनीय" इति, नैष्कर्म्यसिद्धिकारैरपि "उपायान् प्राप्तिहानार्थान् शास्त्रं भासयतेऽर्कवदि”ति, द्वितीयः पुनः फलसाधनत्वमेव न तस्य पुनः साधनाधीनसाधनत्वं, तस्मात्स्वमिहम्नैव पावनत्वं स्वमहिम्नैव चेदमंहसां निवर्त्तकं कीर्त्तनमावृत्तेरुच्चाटन मन्त्रो जप्त एव श्रद्धाऽऽदीनामपि न हि मिहिरस्तिमिरं विहन्तुमुदयमावर्त्तयति श्रद्धाऽऽदिकं वाऽपेक्षते, न च मन्तव्यमावृत्तस्यैव तादृशः प्रभावः न तु सकृत्कृतस्येति ? सकृत्कृतस्पापि पावनत्वप्रतिपादकानां वचनानामनेकेषां दर्शितत्वाद् । न च तेषामवयवानुवादानां द्वादशकपालप्रशंसार्थतावदावृत्तिगुणयुक्तकीर्त्तनप्रशंसार्थतेति वाच्यं खार्थे प्रामाण्यस्य प्रबन्धेन प्रतिपादितत्वात् तस्माद् व्यवस्थैव परं परिशिष्यते सा च न संभवतीत्यभिहितमेव । " , द्वित्राणामिति । यतस्तद्विषया मतिरित्यादांना मित्यर्थः । मोमांसायां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160