Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 117
________________ प्रकाशसहिता शृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः । हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ।। - नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया । भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ अत एवेदमपि प्रत्युक्तं; यद् भावोदयादुपरितनानांपापानांभगवद्भजनं प्रायश्चित्तं, प्राचीनानांतुस्मार्तमिति, श्रवणादिधौतपापस्यैव भावोदयप्रतिपादनाद्, नष्टप्रायेति च नष्टानामप्यभद्राणां सत्सु कामादिषु पुनः पुनरुद्भवात् तन्निवृत्तेश्च भावैकसाध्यत्वात् तदा रजस्तमोभावाः कामलोभादयश्च ये। चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदतीति वचनात् । ननु तर्हि नैष्ठिकी भक्तिरास्तां तस्याः श्रवणाद्यभ्यासपटिमसाध्यत्वात् प्रीतिमात्रं पुनः प्रागपि जन्मान्तरसंस्कारवशात्संभवतीति तस्यैवाधिकारहेतुतेति, तदसत्, प्रमाणाभावात् सर्वात्मना विदधते खलु भावयोगत्यक्तान्यभावस्य हरिः परेशइत्यादि तत्र प्रमाणं तच्च नैष्ठिकीमेवावलम्बते, अनुमानावष्टम्भेन शङ्कते-ननु यदीति। एकत्रारोग्यादौ। अन्यत्रापि पापक्षयेऽपि,। अवशेनापि यन्नाम्नीत्यादिश्रुतिबाधितमनुमानमित्याहकालेति । व्यापकं मानान्तरयोग्यत्वं तस्यानुपलब्धिरभावस्तलिङ्गका. नुमानबाधः । पापक्षयो न श्रद्धासाधनवान् ; तथाऽर्थे मानान्तरायोग्य त्वादिति । प्रतोचः परत्वे = परब्रह्माभेदे। भक्तरेधिकारिविशेषणत्वे दूषणभेदमाह-भक्तरिति। भावलक्षणा = भगवति निरतिशयप्रीति. लक्षणा । न च तस्येति । भक्तिकामस्येत्यर्थः । ब्रह्महादेनिरासार्थिनइति सामानाधिकरण्यम् । अधिकृतत्वादिति । रात्रिसत्रे प्रतिष्ठाया इव नामकीर्तने दोषक्षयस्यार्थगदावगतत्वादिति भावः । न वक्तव्यमिति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160