Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 124
________________ श्रीभगवन्नामकौमुदी । १०५ हेतुः, न तत्र भक्तिरङ्गम् अधिकारिविशेषणं वा, अभिधेयज्ञानमपि नाङ्गं प्रमाणाभावादेव । प्रसङ्गान्महद्दर्शनमाहात्म्यं निरूपयति-दर्शनं चेति । ननु ब्रज भट दूर. तरेण तानपापानित्यर्थवाद एव किं न स्यादत पाह-व्रज भटेति । तद. न्तराल इति । यावति देशे नामकीर्तनध्वनिस्तदन्तराल इति । अनलिप्रेक्षणीयत्वादिति । येष्वङ्गुलिरपि दर्शयितुं न शक्यते तावतैवेश्वरनिगृहीतत्वात्तेषामानयनं दूगपास्तमिति भावः। परगतेति। स्वसन्निहि. तगतपापनिवर्सकमित्यर्थः। नियम इति । तपःस्वाध्यायसंतोषाः शौचं च हरिपूजनम् । संध्योपासनमुख्वाश्च नियमाः परिकीर्तिताः॥ इत्यत्रोक्ता इत्यर्थः । कथं तर्हि सकलमिदमहं च वासुदेव इत्यादिश्लोके नतरप्संकीर्तनं? तत्राह-उत्तमभागवतास्त्विति । परमप्रकृतमुपसंहरति-तस्मादिति। नन्वभिधेयपरमेश्वरज्ञानं कीर्तनाङ्गं स्यान्नेत्याहअभिधेयेति । नदर्शितं प्रमाणं; सत्यं दर्शितं न तु तदङ्गत्वे प्रमाणं, "यव्याजहारविवशो,” "हरिरित्यवशेनाह” “सांकेत्यं पारिहास्यं वा” "हरिरवशाभिहितोऽप्यघौघनाशः" "अवशेनापि यन्नाग्नि कीर्त्तिते” “हरिरिति सकदुच्चरितं दस्युछलेनापि यैर्मनुजैः” इत्यादिबहुतरप्रमाणविरोधाद्, न चैतेषामतत्परत्वम्, अभ्यासगतिसामान्याभ्यामित्यवादिष्म । नन्वपिशद्वयोंगादेषामतत्परत्वंमैवं, भागासिद्ध त्वाद्वेतोः, “यद् व्याजहार विवशोइत्यादावदर्शनाद् । ननु तत्राप्यध्याहार्योऽपिशद्धः; तदर्थस्य विवक्षित स्वाद, अन्यथा ज्ञानपूर्वककीर्तनस्यापावनत्वप्रसङ्गात् ? तदयुक्तं, न हि श्रुतबाधायाध्याहरन्ति, अपि तु श्रुतो. पपत्तये, एवं च सिद्धमेवावशात् कीर्तनस्य पावनत्वम् । अपि च; अपिशवयोगे तदपि स्याद्, न तु तदेवेत्येतावद्, न पुनस्तन्न भवत्येव । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160