Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 105
________________ प्रकाशसहिता इत्यनयोरर्थभेदमाह–तत्रेति । उद्देशोऽभिधानम् । ज्ञानस्येति । नामोच्चारणं पापक्षय हेतुरित्यस्य परमेश्वरज्ञानस्य चेत्यर्थः । ८६ ननु भवतु स्मृतिपुराणवचनानामन्योन्यविरोधव्यवस्थेयम्, इह पुनः पुराणवचनानामेवान्योन्यविरोधोविलोक्यते - कानि चित्सकृत्कीर्त्तनादेव पापक्षयमभिदधति, कानि चिदावर्त्त्यमानानीति, तथा हिश्रीलै - ॐ नमो नीलकण्ठाय इति पुण्याक्षराष्टकम् | मन्त्रमाह सकृद्यस्तु पातकैः स विमुच्यत इति । श्रीभागवते तु हरेर्गुणानुवादः खलु सत्त्वभावन इति, नातः परं कर्म निबन्धकृन्तनंमुमुक्षतां तीर्थपदानुकीर्त्तनादिति च, कस्तत्र विरोधपरिहार इति ? उच्यते । तत्राप्यनुतप्ताननुतप्तविषयत्वेन व्यवस्था, तथा हि श्रीवैष्णवे "कृष्णानुस्मरणं परमि" त्यविशेषेण प्राप्तामावृत्तिमनुतप्तविषयेऽपवति कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परमिति, तोऽननुतप्तविषयैव सा व्यवतिष्ठते । प्रकारान्तरेण शङ्कते - नन्विति । अनुतप्तस्य सकृन्नाम कीर्तनमित रस्यावर्त्त्यमानमिति परिहारग्रन्थार्थः । श्रननुतप्तविषयैव सा श्रावृतिरित्यर्थः । ननु नेह निर्द्धारणमावृत्तेः, इयतो वारानितीयन्तंकालमिति वा ततश्च कथमनिर्द्धारिता सा विधीयते ? नापि यावत्फलमावृत्तिरवघातादाविव, पापवन्त्तन्निवृत्तेरपि शास्त्रक गम्यत्वात्, " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160