Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 107
________________ CE प्रकाशसहिता द्विजानामेव, किं च कियदेतद् यदुत पापक्षयहेतुरस्य नामेति, अयं हि पवित्रकीर्तिः पराग्भावेन प्रतिपन्नः परमेश्वर एव पविर्वज्रं “महद् भयं वज्रमुद्यतमि”ति श्रुतेः, भूतानां महदादीनां यतो भिन्नदृशां भयमिति स्मृतेश्च । तस्मात् त्रायते भक्तं भेदभ्रान्तिमुन्मूल्य निरातङ्क निजमहिमन्यवस्थापयन्ती कीर्तिर्यस्यास पवित्रकीर्तिस्तं पवित्रकीर्ति ब्रह्मादीनामप्यनतिक्रमणीयशासनं शिवं परममङ्गलं भवान् द्वेष्टीति अहो शिवेतरइति वाक्यान्तरं शिवेतरः पर्युदस्तमङ्गलः, अमङ्गल इति यावद् । अन्येऽप्यमङ्गलाः सन्ति, अयं पुनरपूवोऽमङ्गलइति दक्षं देवी निन्दति। न चैषामतत्परत्वम् , अभ्यासाद गतिसामान्याच्च, अभ्यासस्तावद्जामिलोपाख्याने अयं हि कृतनिवेशो जन्मकोट्यंहसामपि । यद्व्याजहार विवशो नाम खस्त्ययनं हरेरिति, निर्वेशो भोगः, “निर्वेशो भृतिभोगयोरिति नैघण्टुकाः, स च प्रायश्चित्त उपचर्यते, भोगप्रायश्चित्तयोः कर्मनाशहेतुत्वाविशेषाद् अत्र विवश इति विवक्षितं, विवशस्य तु न श्रद्धाऽऽदयः सम्भवन्ति एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम् । यदा नारायणेत्येतजगाद चतुरक्षरमिति, अघोनः अघवतः, एतेनैवेति श्रद्धाविरहः, यदा जगाद तदैवेति अनावृत्तिः, चतुरक्षरमिति च श्रद्धाऽनपेक्षा, अक्षरसमाहारस्यैव विवक्षितत्वात् , संख्याकथनस्य चाधिकमिदमित्यभिप्रायः, एवमस्मिन् प्रकरणे भूयानभ्यासः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160