________________
CE
प्रकाशसहिता द्विजानामेव, किं च कियदेतद् यदुत पापक्षयहेतुरस्य नामेति, अयं हि पवित्रकीर्तिः पराग्भावेन प्रतिपन्नः परमेश्वर एव पविर्वज्रं “महद् भयं वज्रमुद्यतमि”ति श्रुतेः,
भूतानां महदादीनां यतो भिन्नदृशां भयमिति
स्मृतेश्च । तस्मात् त्रायते भक्तं भेदभ्रान्तिमुन्मूल्य निरातङ्क निजमहिमन्यवस्थापयन्ती कीर्तिर्यस्यास पवित्रकीर्तिस्तं पवित्रकीर्ति ब्रह्मादीनामप्यनतिक्रमणीयशासनं शिवं परममङ्गलं भवान् द्वेष्टीति अहो शिवेतरइति वाक्यान्तरं शिवेतरः पर्युदस्तमङ्गलः, अमङ्गल इति यावद् । अन्येऽप्यमङ्गलाः सन्ति, अयं पुनरपूवोऽमङ्गलइति दक्षं देवी निन्दति। न चैषामतत्परत्वम् , अभ्यासाद गतिसामान्याच्च, अभ्यासस्तावद्जामिलोपाख्याने
अयं हि कृतनिवेशो जन्मकोट्यंहसामपि । यद्व्याजहार विवशो नाम खस्त्ययनं हरेरिति, निर्वेशो भोगः, “निर्वेशो भृतिभोगयोरिति नैघण्टुकाः, स च प्रायश्चित्त उपचर्यते, भोगप्रायश्चित्तयोः कर्मनाशहेतुत्वाविशेषाद् अत्र विवश इति विवक्षितं, विवशस्य तु न श्रद्धाऽऽदयः सम्भवन्ति
एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम् । यदा नारायणेत्येतजगाद चतुरक्षरमिति,
अघोनः अघवतः, एतेनैवेति श्रद्धाविरहः, यदा जगाद तदैवेति अनावृत्तिः, चतुरक्षरमिति च श्रद्धाऽनपेक्षा, अक्षरसमाहारस्यैव विवक्षितत्वात् , संख्याकथनस्य चाधिकमिदमित्यभिप्रायः, एवमस्मिन् प्रकरणे भूयानभ्यासः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com