________________
श्रीभगवन्नामकौमुदी।
___ श्रद्धाऽऽदिमतः संकीर्तनेऽधिकार इत्यत्र विरोधं शङ्कते-न. न्वेवमिति । आवृत्त्यादिप्रतिपादकवाक्यानां विरोधं निरूपयतिश्रावृत्तिरपीति । तत्र हेतुः-सकृच्छदप्रयोगादिति । व्यस्तं = पृथपदम् । श्लोकस्य पदशस्तात्पर्यव्याख्यानं सुगमम् । न चैषामिति । सांकेत्यादिवाक्यानामतत्परत्वं श्रद्धाऽऽद्यनपेक्षत्वपरत्वमिति न च वाच्यम् अभ्यासादेकत्रैव ग्रन्थे पुनःपुनः श्रवणाद्, गतिसामान्याद्धि ग्रन्थान्तरे च गतिसामान्यादित्यर्थः । अभ्यासं प्रपञ्चयतिअभ्यासस्तावदिति । चतुरक्षरमित्यत्राक्षरग्रहणस्य तात्पर्यमाहचतुरतरमिति । चतुस्संख्यायास्तात्पर्यमाह-संख्येति । एकेन द्वयेन वा पापनिष्कृतिसंभवाश्चतुष्टयमधिकमिति भावः ।
नन्वेकस्माद्वाक्याद्यावानर्थोऽवगम्यते किं तावानेवान्यस्मादपि; उताधिकः ? यदि तावदधिकस्तर्हि नाभ्यासस्तस्यैव तत्र विधेयत्वाद, उक्तस्यैव पुनरुक्तिरभ्यासः। अथ तावानेव तथापि नतरामभ्यासः, भिद्यते हि तदा वाक्यार्थः; "एकस्यैवं पुनः श्रुतिरविशेषादनर्थकहि स्यादिति न्यायेन, “आनन्दमयोऽभ्यासादि"त्यत्र तु ब्रह्मणों दुर्भेदत्वाद् दुर्बोधत्वाच्च व्यतिरेकेणान्वयेन च पुनः पुनरुपादानं न विरुध्यते
"प्रसन्नव स भवति असद् ब्रह्मेति वेद चेद्
अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरि"ति इह तुन तथेति, तद्युक्तम् इहापि विधेयस्यैकत्वेऽपि सुकरत्वेनाश्रद्धातिरस्कृतत्वाद्, “नीहारमिव भास्करः" "दहत्येधो यथाऽनलः” “यथा गदं वीर्यतममि" त्यादिभिरुदाहरणैरुपपत्तिभिश्च पुनः पुनः प्रतिपादनं न विरुध्यते, एवमभ्यासो निरवद्यः।गतिसामान्यं चस्कन्दोक्तो
अवशेनापि संकीर्त्य सकृयन्नाम मुच्यते । भयेभ्यः सर्वपापेभ्यस्तं नमाम्यहमच्युतम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com