Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 103
________________ प्रकाशसहिता राजादिः समराद्यर्थ सेवकं स्वीकरोति तश्च नोत्साहमन्तरेण सेवकस्य संभवतीति भावः । अहं त्विति । राजसेवकौ हि स्वस्वकार्योद्देशेन प्रवत्ते नैवमावयोरित्यर्थः। ननु श्रीविष्णुपुराणे विहिताचरणं प्रतिषिद्धवर्जनच भक्तिरित्युक्तं न चलति निजवर्णधर्मतो यः सममतिरात्ममुहृद्विपक्षपते । न हरति न च हन्ति किं चिदुच्चैः सितमनसन्तमवेहि विष्णुभक्तमित्यादौ, सत्यमुक्तम् , उपलक्षणं तु तत् शाखाग्रमिव चन्द्रस्य न स्वरूपं भक्तः प्रकृष्टः प्रकाश इव, भावलक्षणाया भक्तः पृथगुपादानाद, मनसि कृतजनाईनं मनुष्यं सततमवेहि हरेरतीव भक्तमिति । अत्र हि सततं मनसि कृतजनाईनमिति संबन्धः, सातत्यं च न भावमन्तरेणावकल्पते, अतीव भक्तमिति च स एव मुख्यो भक्त इति दर्शयति, सममतिरात्मसुहद्विपक्षपक्ष इति च सर्वात्मनि वासुदेवेभावमन्तरेण नोपपद्यते,उपपद्यतेचोपलक्षणत्वम्। विधिप्रतिषेधातिक्रमोहि रागादिनिबन्धनः, न च पुरुषोत्तमप्रवणे चेतसि रागादयोऽवकाशं लभन्ते, अत एवाभाणि भगवता श्रीशुकेन विकर्म यच्चोत्पतितं कथं चिदुनोति सर्वं हृदि सन्निविष्ट इति । लोकेऽपि भक्तसेवकयोर्भेदो दृश्यते, समानेऽपि राजसेवाकर्मणि भक्तोऽयमभक्तोऽयमिति व्यपदेशदर्शनात् , तस्माद् भाव एव भक्तिः। सा च कीर्तनाङ्गं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160