Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 97
________________ प्रकाशसहिता मेव भक्तिरन्विष्यमाणा मुक्तिं बलादविलम्बेनापादयतीति दर्शयति । एवंलक्षणश्च मनसः परिणामः कथं नु रतेरन्यः स्याद् । ७८ भागवत पर्यालोचनयाऽपि रतिरेव भक्तिरित्याह- श्रीभागवतइति । देवानाम् ब्रम्हविष्णुमहेशानाम् । शुद्धसत्वमयत्वं विवृणोतिसरस्वतीतोरेति । भृगुणा हि विष्णुवक्षसि पदाघातः कृतः विष्णुस्तु भूषणः वेनाङ्गीकृतवानतः शुद्धसत्त्वमय इति भावः । फलाभिसन्धिशून्या चेद्भक्तिः कथं जायेत ? तत्राह-स्वरसत एवेति । सार्ष्टिः सारूप्यं, सायुज्यं तादात्म्यम् एकत्वमभेदः । उपसंहरति- एवमिति । " अन्या व्याख्या - एकमनसः पुंसो देवानां या वृत्तिः सा भक्तिरित्यन्वयः, तत्र देवशब्दस्य नानार्थत्वादिन्द्रियग्रहणार्थमुपपदं गुणलिङ्गानामिति, शब्दादिग्रहकारणानामित्यर्थः । अनेनैव कर्मेन्द्रियाणामपि ग्रहणं छत्रिन्यायेन, कम्र्मशब्देनैव बुद्धेरपि अन्यक्ष विशेषणविशेष्ययोरनन्वयप्रसङ्गात् । कर्म्म कर्तव्यं तच्च द्विविधंदृष्टमानुश्रविक च तत्र प्रत्यक्षादिभिः कर्त्तव्यत्वेनावगतं दृष्टं, यस्य तु शास्त्रादवगम्यते कर्त्तव्यत्वं तदानुश्रविकं तत्र रागादिनिबन्धनप्रवृत्तिवारणार्थं विशेष - मानुश्रविककर्मणामिति, श्रानुश्रविकेऽपि काम्ये रागादिनिबन्धनत्वात्प्रवृत्तेस्तन्निवृत्तये विशेषणमनिमित्तेति, अनिमित्ताऽपि कदाचिदन्यदेवताऽऽलम्बनी वृत्तिः स्याद् न च सा भागवती भक्तिरत आह-सत्त्वएवेति । शेषंपूर्ववत् । I व्याख्यानान्तरमाह -- श्रन्येति । छत्रिन्यायेनेति । छत्रिणो गच्छ. न्तीत्यत्र यथा छत्रिशब्दः छत्र्यच्छत्रिसमुदाय लक्षकः, एवं गुणलिङ्गशब्दोऽपि कर्मेन्द्रियज्ञानेन्द्रियसमुदायलक्षकः । तद्विशेषणमानुश्रविककर्मणामिति । तत्र कर्मशब्दो बुद्धिवृत्त्युपलक्षणमित्याह - कर्मेति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160