Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 55
________________ प्रकाशसहिता तथा सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोयतस्तद्विषया मतिः ॥ एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम्। यदा नारायणेत्येतजगाद चतुरक्षरम् ॥ नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः । अजामिलोऽपि येनैव मृत्युपाशादमुच्यतेतितत्र तत्रैवकारश्रवणाद, एवं नामकीर्तनप्रायश्चित्तयोः पापक्षयेऽङ्गाङ्गिभावेन समुपक्ष मुपपाद्य दूषयति-अत्रेति । कर्मणा द्वादशाब्दादिना कर्मनिहोरोनेप्यते हि । नन्वेवं स्मृतिवचनविरोधः स्यादत आह-आत्यन्तिकइति । कृतेऽपि द्वादशाब्दे पापवासनासभावादात्यन्तिकपापनाशोनास्ति, अन्यथा पुनः पापाचरणं न स्यादिति भावः । तत्रैव हेतुरविद्वदधिकारित्त्वादिति। तत्त्वज्ञानाभावात्स्मार्तप्रायश्चित्तानुष्ठातणां पुनः पुनः पापाचरणमेव भवतीति नात्यन्तिकः पापनाशइति भावः । कितात्यन्तिकनाशे प्रायश्चित्तं तत्राह-प्रायश्चित्तमिति । विमर्शनब्रह्मविद्येत्यर्थः । कर्मात्मकेति । द्वादशाब्दादिरूपेत्यर्थः। के चि. दिति। "मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धय"इति विरलत्वात् । नीहारं तमः। ब्रह्मविद्येति । यथा हि ब्रह्मविद्या सवासनं पापं क्षपयति; एवं कीर्तनादिलक्षणा भक्तिरिति भावः । सर्वेषामिति । महापातकानुपातकोपपातकप्रकीर्णकादिसकलपापाचरितणामित्यर्थः। सुनिकृतमिति । सुनिष्कृतमिदमेवेति योजना। द्वादशाब्दादि निष्कृतं. -ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । एते महापातकिनो यश्च तैः सह संवसेदितियोगियाज्ञवल्क्यसूचितानि ब्राह्मणहत्याऽऽदीनि महापापानि, स्तेनस्तु ब्राह्मणस्वामिकसुवर्णचोरः "ब्राह्मणसुवर्णापहरणं महापातकमि"तिवच. नेनापस्तम्बीयेन संवादात् । अनुपातकानि पितृपितृव्यादिभार्थ्यागमनादीनि । उपपातकानि गोवधादिभायाविक्रयान्तानि योगियाज्ञवलायोक्तानि । महापातकातिपातकानुपातकोपपातकभिन्नं पातकं प्रकीर्णमुच्यते। अनादिशब्देनातिपातकग्राहमिति संक्षेपः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160