Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 82
________________ श्रीभगवन्नामकौमुदी | तस्मान्निरवद्यस्य सर्वेषामात्मभूतस्य सदानन्दस्यानुस्मरणं पुनः पुनश्चिन्तनं सजातीयप्रत्ययावृत्तिलक्षणं विजातीयप्रत्ययनिरोधलक्षणं वा निदिध्यासनमिहोपादीयते तस्य चात्मसतत्त्वसाक्षात्कार कारणभूतं श्रवणं प्रति फलोपकार्य्यङ्गभूतस्यासम्भावनानिरासवत् तत्प्रतिबन्धकपातकप्रध्वंसोऽपि द्वारकार्य भवत्येव, ६३ ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणइति स्मरणात्, कीर्त्तनस्य महापातकादिनिवर्त्तकत्वे नेदं प्रमाणम् । नात्र नामकीर्तनस्य मुख्यप्रायश्चित्तत्वमभिधीयत इति शङ्कते - नन्विति | कृष्णानुस्मरणस्य ब्रह्मविद्यात्वं साधयति - तथा हीति । विलिखतेरर्थमाह - विदारयतीति । श्राकर्षतेरर्थमाह- श्रात्मसादिति । ज्ञानमिति छेदः । विलापयतीत्यर्थः । परमात्मा निर्गुणं ब्रह्मेत्यर्थः । अर्थान्तरमाह – सदानन्द इति । निर्वृतिरानन्दः । नन्वेवं सद्रूपत्वेनानन्दरूपत्वेन द्वैतापत्तिस्तत्राह तयोरैक्यमिति । सदानन्दयोरित्यर्थः । ऐक्यस्य धर्मान्तरत्वं वारयति - परं ब्रह्मेति । ननु भूवाचकस्य कथंसद्वाचकत्वमतश्राह - तस्य चेति । अनन्वयादनन्वयप्रसङ्गात् । ननु किमित्यनन्वयः कृषिवाच्यभुवो णवाच्य श्रानन्दो यस्मादिति विग्रहादतश्राह - पृथिवीवर्त्तिनामिति । पृथिव्या नानन्दो जडत्वात्तद्गतजीवलक्षगायां च स एव दोषः । भूवाचकेन तद्वर्त्तिजीवलक्षणा, जीवानामिति षष्ठ्यर्थं लक्षणा चेत्यभिप्रायेण लक्षणाद्वयप्रसङ्गादिति कचित्क चिस्पाठः । दोषान्तरमाह - स्थावरमिति । स्वसमये परिपच्यमानानि फलोन्मुखानि नानापुण्यानि तैरुपसादिता विविधा विषयास्तेषां सन्निधिरव्यवधानं तेन संसृज्यमानं मन एव मुकुरमण्डलमादर्शमण्डलं तदन्तरभिव्यज्यमानतयेत्यर्थः । तत्तदानन्द तयेति । स्रगानन्दश्चन्दनानन्दइत्यादिरूपेणेत्यर्थः । उपधीयमाने = उपाधितः प्रतीयमाने । श्रविषक्षितत्वात्तात्पर्याविषयत्वाद् । विपक्षे दोषमाह - विवक्षितत्वे वेति । श्रमुष्मादादित्यमण्डलादू देवकामा देवानन्दाः, अतश्च सर्वजनानन्द प्रदे परमात्मनि पृथिवीगतजीवानन्द प्रदत्वविवक्षा न युक्तिमतीति भावः । I Shree Sudharmaswami Gyanbhandar-Umara, Surat - www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160