Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
श्रीभगवन्नामकौमुदी |
ननु नामकीर्त्तनविषयं शास्त्रं न द्वादशवार्षिकादेः साधनत्वमपलपति तत्कथं बाधः ? उच्यते - अननुष्ठानमेवात्र बाधितत्वं, न विषयापहारः । यथोक्तं भद्वै: "एतेन प्रवृत्तिश्च फलं प्रमाणानां प्रवृत्त्याख्यफलापहारश्च बाघ" - इति । तत्र यदा समशिष्टयोर्द्वयोरपि नोपलभ्यते विशेषः तदा निरङ्क शत्वादिच्छायाः कस्य चित्कदा चित्कस्मिंश्चिस्प्रवृत्तिरिति द्वयोरपि पाक्षिकमनुष्ठानं; यदा पुनरुपलभ्यते विशेषः सुकरदुष्करत्वभेदेन तदा सुकरानुरागिणीमिच्छां न कश्चिदपि कदा चिदप्यपाक्रष्टुमीष्ट इति दुष्करस्यात्यन्तबाध एव तस्माद् व्यवस्थैव वरीयसी ।
श्राशयानभिज्ञः शङ्कते - नन्विति । श्राशयमाविष्करोति — उच्यतइति । उबेकाचार्यसंमतिमाह - यथोक्तमिति । प्रवृत्तिरनुष्ठानम् । अननुष्ठानाख्यं बाधं विवृणोति तत्रेति । विशेषमेवाह - सुकरत्वदुष्करत्वभेदेनेति । सुकरानुरागिणीं सुकरे कर्मणि स्वारस्येन प्रवर्तमानाम् । श्राक्रष्टुं = दुष्करे कर्मणि प्रवर्त्तयितुम् । ईष्टे समर्थः । इतिशब्दो देतौ ।
तत्र केचिन्नितान्तमनुरक्ताः स्मृतिषु पुराणोभ्यश्च मनाग्विभ्यतो महदल्पपापभेदेन वा ज्ञाताज्ञातकृतभेदेन वा प्रकाशरहस्यभेदेन वा स्मार्त्त पौराणञ्च प्रायश्चिसंव्यवस्थापनीयमिति वदन्ति, ततश्चाल्पाज्ञानादिकृतविषयैः पौराणमित्युक्तं भवति । तन्न साधीयः
स्मात्तैर्विकल्प्यते
पापे गुरूणि गुरुणि खल्पान्यल्पे च तद्विदः । प्रायश्चित्तानि मैत्रेय जगुः स्वायंभुवादयः ॥ प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणं परमिति गुरुलघु सर्व्वपापानामविशेषेण कृष्णानुस्मरणस्य मुख्यप्रायश्चित्तत्वाभिधानाद ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
६१
www.umaragyanbhandar.com

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160