Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 46
________________ श्रीभगवन्नामकौमुदी | ब्येत तर्हि पुराणश्रवणविधेरिति ज्ञेयं साधकत्वमेव दर्शयति-सं हीति । न प्राइयतीति । श्रध्येतव्यत्वेन श्रोतव्यत्वेन वा न ग्राहयतीत्यर्थः । ततोऽध्यपनविधिः श्रवणविधिर्वा पुराणानां प्रयोजनशून्यमक्षरमात्रमपि न ग्राहयत्यत एव कस्मिंश्चिदेकस्मिन्फलवति तात्पर्य तत्पुराणवाक्यांना मामहे स्वीकरोतीत्याह श्रतएवेति । ततः किं तत्राह-सत्रेति । नामकीर्तनवाक्येष्वित्यर्थः । श्रन्यपरत्वस्येति । स्तुत्यादिपरत्वस्येत्यर्थः । स्वार्थेति । पापक्षयोद्देशेन नामकीर्तनविधिपरत्वमित्यर्थः । न केवलमध्ययनविधिरेव श्रवणविधिरेव वा नामकीर्तनवाक्यानां तात्पर्य ग्राहकोऽपि तूपक्रमो पसंहारादी न्यपीत्याह-अपिचेति । पौनःपुन्यमभ्यासः, अनधिगतत्वमशांतत्वम् अर्थवत्वं फलवत्वं, प्रमाणान्तरानवगता कृतियोग्येष्टसाधनता लिथं इति मतेऽप्याह-अपि चेति । साधनशद्वो भावप्रधानः । लिङादिषुकेनेति । यजेत स्वर्गकाम इत्यादिनेत्यर्थः । वाक्यान्तरेणेति । पूषा प्रपिष्टभाग इंस्यादि नेत्यर्थः । प्रकृत श्राह इहापीति । कृतियोग्यं च तद्नामकीर्तनमित्यर्थः । क्रियात्वे हेतुः कालसंस्पर्शानवगमादिति । सर्वेषामप्यघवतामित्यादिवाक्ये भूतभविष्यदूधर्तमानकालसंसर्गो नावगम्यते ततो नामकीर्तनं क्रियेत्यभिप्रायः । ननु कालसंस्पर्शायोग्यस्थं क्रियात्वगमकं यथा थजेतेत्यादौ तत्प्रकृते नामव्याहरणं विष्णोरित्यादिवाक्ये नास्तीति शङ्कतेमन्विति । कार्य क्रियेत्यर्थः । पदान्तरेति । सुबन्ताभिहितं तु न काल संस्प शयोग्यमित्यर्थः । तत्र हेतुमाह - नामेति । एवं हि पूषा प्रपिष्ठभाग इत्यादेरविधायकत्वप्रसङ्ग इत्याह-तदयुक्तमिति । तत्राप्यस्तीतिसामानाधिकरण्याविरोधादिति भावः । दूषणान्तरमाह- कृत्यानामिति । कृत्यप्रत्येथानामित्यर्थः । कालसंबन्ध इति सप्तम्यन्तम् । स्वार्थस्येति शेषः । तत्र हेतु:कर्तव्यमिति । तस्माद्वाषये कालसंसर्गाप्रती तिरेव क्रियात्वगमिकेत्युपसंहरति- तस्मादिति । कार्यत्वोपयोगी क्रियात्वगमकः, न तदसंहत्वंन कालसंसर्गासहत्वं, कार्यत्योपयोगीत्यनुषङ्गः । दूषणान्तरमाह - सर्व थेति । वस्तुतः कालसंसर्गायोग्यत्वं शबर स्वामिनामप्यसंमतमित्याह-उक्तचेति । एष इति । विधेयो यागादिरित्यर्थः । परमप्रकृतमुपसंहरति — तस्मा दिति । एवमर्थवादत्वं नामकीर्तनवाक्यानां प्रतिकूलमिति मत्वा दूषितम् । वस्तुतस्तु तदनुकूलं विधेयस्यैव स्तुतिसंबन्धेनार्थवादत्वादेव विधिकल्पनादित्याह - भवतु वेति । ननु तथाऽपि फलाभावादकर्तव्यं नामकीर्तनमित्याशङ्क्यार्थवादोपस्थितं पापक्षयात्मकमेव फलमित्याह-तत्र ब्रेति । Shree Sudharmaswami Gyanbhandar-Umara, Surat २७. www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160