Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 43
________________ प्रकाशसहिता तदाऽव्यभिचरितक्रतु संबन्धिदेवताद्वारा कीर्तनं पर्णतान्यायेन त्वङ्ग न चैवमस्ति ततश्च हरिरित्यवशेनाहेत्यादौ हरिशद्वेनाभिहितस्योपांशुयाजदेवतात्वे मानाभावान्नाव्यभिचरितक्रतुसंबन्ध इति भावः । पदार्थसंबन्धमुखेनेति । श्रव्यभिचरितक्रतुसंबन्धिपदार्थद्वारेत्यर्थः । पर्णमयीवाक्येऽपि फल परत्वं किन्न स्यादत श्राह - पर्णेति । क्रियामनाश्रित्येति । . दतेन्द्रिय कामस्येत्यादौ शिक्यस्थस्यापि दन इन्द्रियफलसाधनत्वापत्तेरिति भावः । ननु तर्हि होमक्रियामाश्रित्य यथा दघ्नः फलसाधनत्वं विधीयते तथा पर्णत्वस्यापि ऋतु क्रियामाश्रित्यापापश्लोकश्रवणफलसाधनत्वं विधीयतां तत्राह प्रदेशान्तरेति । प्रकरणप्राप्तायां हि क्रियायामाश्रयाश्रयिसंबन्धोऽनूद्यते फलसंबन्धो विधीयते दभेन्द्रिय कामस्येत्यादौ, न चात्र क्रतुक्रिया प्रकरणप्राप्ता प्रदेशान्तरवर्तित्वादिति भावः । नन्वनेनैव वाक्येनाश्रयाश्रयिसंबन्धो विधीयतां तत्राह - वियेति । पर्णमयीत्वस्येति शेषः । क्रियासंबन्धः क्रियया सहाश्रयाश्रयिसंबन्धः। विधीयत इति । पर्णमयीवाक्य इति शेषः । फलश्रुतेर्न स पापमित्याद्यायाः नामकीर्तनवाक्येषु वैषम्यमाह-इहेति । पृथग्ध्येति । उत्तरमीमांसायां तृतीय उद्गीथो २४ " १ - उदीच्य मीमांसायां तृतीयाध्याये तृतीयपादे कर्माङ्गावबद्धोपासनानियम राहित्याधिकरणे "त निर्धारणानियमस्तद्द्दष्टेः पृथग्ध्य प्रतिबन्धः फलम् | ३ | ३ ४२ इति सूत्रे अद्वैतभाष्ये "डोमेत्येतदक्षरमुद्गीथमुपासीते"त्यादीनि कर्माङ्गाश्रितानि विज्ञानानि नित्यान्यनित्यानि वेति संदिा प्रयोगवचनपरिग्रहानित्यानीति पूर्वपक्षयित्वा तेषूपासनाकर्मसु निर्धारणस्योपासनस्यानियमो ऽनित्यता सिद्धान्तिता श्रुत्यैव तेतोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदे' त्यैवंरूपया छान्दोग्ये; तद्दृष्ट ेः = अनियमदर्शनाद्, युक्तं चैतद् हि यतः कर्मापेक्षयोपासनायाः पृथक फलमप्रतिबन्धः कर्मसमृद्धिः, तत्रैव वीर्य्यवत्तरं भवतीत्यत्रत्यतरपा पक्षद्वयेऽपि फलसूचनादिति शंकराचार्यपादा अभिप्रयन्ति स्म । विशिष्टाद्वैते श्रीभाष्ये रामानुजाचार्यपादा अप्येवमेव व्याचचक्षिरे । शुद्धाद्वैतेऽणुभाष्ये तु प्रकृतसूत्रभावं वल्लभाचार्यपादा यादृशं प्रत्यपीपदन् तादृशोऽत्र टीकाकृदभीष्टानुगुण्यमाधातुमुदासीनः । द्वैताद्वैते वेदान्त पारिजात सौरभ भाष्येऽपि निम्बार्काचार्यपादाः प्रथमपथद्वयमेवात्सस्नुः । द्वैते पूर्णप्रज्ञदर्शने श्रीगोविन्दभाष्ये च श्रीमदानन्ततीर्थं भगवस्पादतदनुगाचार्य्यं विहिताऽश्रत्य व्याख्याऽन्यादृशसिद्धान्तपरा नैतट्टीक के शेपोद्बलिनीति, अनौपनिषदपञ्चप्रस्थानीप्रदर्शनस्येदमेव तात्पय्यंयन्मूलकारैर्यादृशार्थं प्रमापयितुं समुपन्यासि नैनमुत्तरमीमांसाप्रस्थानेषु कोऽपि विरुणद्धि मनागपीति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160