Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay
View full book text
________________
प्रकाशलहिता मात्रेण ब्रह्महत्याऽऽदिपापक्षयः तर्हि द्वादशाब्दादिप्रायश्चित्तवैयथ्यं स्यादिति विरोध इति भावः। ननु विपरीतं किन्नस्यात् तथा हि मन्वादिवाक्य विरोधे नामकीर्तनवाक्यानामर्थवादत्वमाश्रीयतेनामकीर्तनवाक्यविरोधे मन्वादिवाक्यानामेव ब्रह्महत्याऽऽदिनिषेधार्थवादत्वमाश्रीयतामिति शङ्का निराकरोति-देवतेति। देवतास्वरूपपराणां पुराणानां स्वविषये गरीयस्त्वाद् अनुष्ठेयार्थपराणांच स्मृतीनां स्वविषये गरीयस्त्वाद्, मन्वादिवाक्यविरोधे पुराणवचनानि स्तावकत्वमेवाश्रयन्त इति योजना, पुराणानां देवतास्वरूपपरत्वं स्मृतीनामनुष्ठेयार्थपरत्वंचोपक्रमोपसंहारादितात्पर्यलिङ्गैर्द्रष्टव्यम् । गरीयस्त्वादिति । दृढतरप्रमाणोपेतत्वादित्यर्थः, अतश्च नामकीर्तनवाक्यानां विष्णुरूपदेवतास्तावकत्वं मन्वादिवाक्या. नां प्रायश्चित्तविधायकत्वमेव युक्तमिति भावः । ननु किं देवतास्तुत्या? अताह-भजनीयेति। भजनमुपासना, ततश्चोपासनाविधिशेषत्वं नामकीर्तनवाक्यानामिति भावः। अत एवाह-यस्याइति। आप्रायणमामरणम् अतश्चमरणपर्यन्तमुपासनाऽनुष्ठान विधेयं, ततश्च नामकीर्तनवाक्यानामविवक्षितार्थत्वमित्युपसंहरति-तस्मादिति । नामकीर्तनवाक्यानांखार्थे प्रामाण्यं वक्तं प्रथमतःपुराणवाक्यानां प्रामाण्यं दर्शयति-यथेति। विधिवाक्यानां कार्य; उपनिषदादीनां सिद्धे परमात्मनि तथा पुराणानापि प्रामाण्यमविशिष्टमित्यनुषङ्गः, धर्माणां परमात्मनश्चेति शेषः । प्रबन्धन विस्तरेण, तदेव विवृणोति-श्रीभागवत इति । पञ्चम्यन्तानां नातिशङ्कनीयं धर्मे प्रामाण्यं पुराणानामित्युत्तरेणान्वयः। प्रथमतः श्रीभागवतग्रहणं पुराणेषु श्रेष्ठत्वात् श्रेष्ठत्वे च प्रमाणमयमेव श्लोकः तथा हि-अत्र भागवते परमो धर्मो निरूप्यते, धर्मस्य परमत्वमेवाह-प्रोज्झितं कैतवं. कपटं स्वर्गापवर्गलक्षणं फलाभिसंधिरूपं यत्रेति, ततश्च काम्यधर्मप्रधानेभ्यः परमेश्वराराधनाख्यधर्मप्रधानं श्रीभागवतं श्रेष्ठमिति भावः,निर्मत्सराणां सतामिति तस्यैव धर्मस्याधिकारिपर्यालोचनया परत्वमुक्तं न केवलं तादृशधर्ममात्रनिरूपकत्वं किं तु वास्तवं वस्तु परमात्मरूप. मत्र वेद्यं कीदृशंवस्तु शिवदं सुखदम् आध्यात्मिकाधिभौतिकाधिदैवि. कतापत्रयनिवर्तकं चाराधितं सदिति भावः, ततश्च फलाभिसंधिशून्यमपि परमेश्वराराधनं परिपक्कं सकलफलप्रदमिति सुचितम्, अनेन ताशवस्तुनिरूपकत्वादपि पुराणान्तरेभ्यः श्रेष्ठत्वं श्रीभागवतस्योक्तं, यद्यपि पुराणान्तरेवपि तादृशं वस्तु निरूप्यते तथाऽप्यत्र यथा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160