________________
1554
द्वितीय प्रकाशे
a
देशविरति स्वरूपं
॥२३॥
कोऽहं का मेऽवस्था, किं च कुलं के पुनर्गुणा नियमाः। किंन स्पृष्टं क्षेत्रं, श्रुतं न किं धर्मशास्त्रं च ॥८॥ जिनलाभ- व्याख्या-स हि रात्रौ निद्रामुद्रितचेतनस्तदानीं प्रथमोत्थितत्वादद्यापि अप्राप्तचित्तपाटवः सन् पूर्वमेवं ध्या मरि
यति-कोऽहं मनुष्यो देवादि, तत्र तावन्मनुष्योऽस्मि, तर्हि का ममावस्था, बाल्या यौवना वा (यौवना वृद्धा विरचिते
वा), तत्र यूनो मम मा भूद्वाल्योचिता चेष्टा, वृद्धस्य वा मा भूत्तारुण्योचितेति । पुनः किं मम कुलं?, श्रावकसआत्मप्रबोधग्रन्थे
कं अन्यद्वा, श्रावककुलं चेत्तर्हि के मम गुणाः, मूलगुणा उत्तरगुणा वा?, के पुनर्नियमा अभिग्रहविशेषाः, तथा ॥२३३॥मा सति विभवे जिनभवन १ बिव २ तत्प्रतिष्ठा ३ पुस्तक ४ चतुर्विधसंघ ५-८ शत्रुजयादितीर्थयात्रा ९ लक्षणेषु नवसु
क्षेत्रेषु मया कि क्षेत्रं न स्पृष्टं ?, चः समुच्चये, किं पुनर्धर्मशास्त्रं दशवैकालिकादिकं मया न श्रुतं ?, ततस्तत्क्षेत्रस्पर्शने तच्छास्त्रश्रवणे च यत्नं करोमीति ।
तथा स श्रावकः सर्वदा संजातभववैराग्यः सन् दीक्षाध्यानं न मुंचत्येव, तथापि तदानीमनन्यव्यापारत्वाद्विशेषतः समुल्लसद्दीक्षाभिलाषः सन्नेवं चिंतयति-धन्यास्ते वज्रस्वामिप्रभृतयो महामुनीश्वरा यैर्खाल्यावस्थायामेव सकलदुर्निवारसंसारकारणानि परित्यज्यातिशुद्धमनसा संयममार्गः सिषेवे, अहं पुनरद्यापि गृहवासपतितः सन् तच्छुद्धमार्गसेवनं कर्तुं न शक्नोमि । अथ कदा तादृक् शुभदिन भावि ! यदाऽहमपि धन्यंमन्यः सन् संयममार्ग प्रतिपत्स्ये? इत्यायनुक्तमपि द्रष्टव्यं ।
अथैवं निशाशेषे विचिख पश्चात श्रावको यत्करोति तहर्यते
459 64 -6
1
95+%EOfe
-C-Cle
Jain Educatan inte
For Private & Personal Use Only
ww.jainelibrary.org