Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
जिनलाभबरि
विरचिते
आत्म
प्रबोधग्रन्ये
॥ ३२७॥
Jain Education Intern
तिमा पूजिताऽस्ति । दृश्यते च सिद्धांते तत्तदधिकारे 'व्हाया कपबलिकम्मे' त्यादि पाठस्तस्यार्थस्त्वयं- पूर्व स्नाताः पश्चात्स्नानानंतरं कृतं बलिकर्म - स्वगृहदेवतानामर्हत्प्रतिमालक्षणानां पूजनं यैस्ते तथेति । न च वाच्यं तैः कुलदेव्याः पूजा कृताऽस्तीति, सम्यक्त्वप्रतिपत्तिसमये एव तैर्जिनव्यतिरिक्त देवानां वंदन पूजनादेः परित्यक्तत्वात्, तुंगिकानगरीवास्तव्य श्रावकाणां सूत्रोक्तवर्णन विरोधापत्तेश्च । तद्वर्णनपाठस्तु भगवत्या द्वितीयशतस्य पंचमोद्देशकगतोऽयमस्ति ' अड्डा दित्ता' इत्यादिर्यावत् 'असहिज्जदेवासुरनाग सुवण्णजक्खरक्खस किन्नर किंपुरिस गरुलगंधव्वमहोरगा - इएहिं देवगणेहिं णिग्गंथाओ पावयणाओ अणतिक्कमणिज्जा, निग्गंथे पावयणे निस्संकिआ निक्कंखिआ निव्वितिगच्छा लठ्ठा गहिपठ्ठेत्यादि । तत्र 'असहिज्ज' त्ति अविद्यमानं साहाय्यं परसाहायकं येषां ते तथा, ते च ते | देवाश्चेति कर्मधारयसमासः, अथवा भिन्नमेवेदं श्रावकाणां विशेषणं, तेन असाहाय्या - आपद्यपि देवादिसाहाय्यानभिलाषिणः, स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः । ततश्च ये एवंविधविशेषणविशिष्टाः श्रावकास्ते कथमन्येषां मिथ्यात्विदेवानां पूजनं कुर्युः ?, प्रत्यक्षविरोधादिति सुधीभिर्विभाव्यं । किंच औपपातिकोपांगेsपि अंबड परिव्राजकाधिकारे जिनचैत्यानां साक्षादनीयत्वमुक्तमस्ति । तथा च तत्सूत्रं - अम्मडस्सणं परिव्वायगस्स णो कप्पंति अण्णउत्थिए वा अण्णउत्थि अदेवयाणि वा अण्णउत्थियपरिग्गहियाणि अरिहंत चेहयाणि वा वंदित्तए वा नमसित्तए वा जाव पज्जुवासित्तए वा, गण्णत्थ अरिहंते वा अरिहंत चेहयाणि वेत्यादि । एवमुपासक दशांगेऽपि आनंदश्रावकाधिकारे बोध्यं । यत्पुनस्तैरुक्तं प्रदेशिन्नृपेण चैत्यं किं न कारितमिति । तत्रो
For Private & Personal Use Only
चतुर्थ
प्रकाशे
परमात्म
ॐ ताखरूप निरूपणम् ॥ ३२७॥
www.jainelibrary.org

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362