Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
जिनलाभबूरि विरचिते
आत्म
प्रयोभवन्ये
॥ ३३९॥
Jain Education Interna
वाससंस्थानं तदरण्यं स्मृतिपथमायातं, तदा स क्षणमपि तत्र स्थातुमनिच्छन् तानि वस्त्राभरणानि परित्यज्य | स्वमूलवेषेण ततो निःसृत्यारण्ये जगाम, तत्राऽन्ये आरण्यका म्लेच्छाविरादायातं तं दृष्ट्वा संभूय पृच्छति - 'भोस्त्वं कुत्रागाः १' । स प्राह- 'एकस्मिन् महति नगरे गतोऽभूत्रं । पुनस्ते पृच्छति 'कीदृशं तन्नगरं १' । तदाऽसौ नगरगुणान् विजानन्नपि तत्रोपमाया अभावात्तान् कथयितुं न शक्नोति । एष दृष्टांतः । एवं केवलज्ञान्यपि निजानंतज्ञानबलेन सिद्धिसुखं विजानन्नपि इह तदुपमाया अभावाद्भव्यानां पुरः कथयितुं न शक्नोतीत्यर्थोपनयः । अयमेव च गाथयोपदश्यते
इय सिद्धाणं सुक्खं, अणोवमं नत्थि तस्स ओवम्मं । किंचि विसेसेणेत्तो, सारिक्खमिणं सुणह वो [च्छं]त्थं (१) ॥ १४३ ॥ व्याख्या - इत्येवं सिद्धानां सौख्यमनुपमं वर्त्तते, किमित्यत आह-यतो नास्ति तस्योपम्यं, तथापि बालजनप्रतिपत्तये किंचिद्विशेषेण अस्य सादृश्यमिदं वक्ष्यमाणं शृणुत ॥
जह सव्वकामगुणियं, पुरिसो भोत्तूण भोषणं कोह । तण्हाछुहाविमुको, अच्छि जहा अमियतत्तो ॥ १४४ ॥ इयं सव्वकालतित्ता, अतुलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं, चिट्ठति सुही सुहं पत्ता ॥ १४५ ॥
व्याख्या- यथा कोsपि पुरुषः सर्वकामगुणितं - सकल सौंदर्यसंस्कृतं भोजनं भुक्त्वा क्षुत्तृविप्रमुक्तः सन् यथाऽमृततृप्तस्तथा तिष्ठति । इत्येवं निर्वाण-मोक्षमुपगताः सिद्धाः सर्वकालं - साथ पर्यवसितं कालं यावत्तृप्ताःसर्वथौत्सुक्यनिवृत्तिभावतः परमं संतोषमाश्रितास्तथाऽतुलमनुपमं शाश्वतमप्रतिपाति अव्याबाधं- लेशतोऽपि
For Private & Personal Use Only
चतुर्थ
प्रकाशे
परमात्म
तास्वरूप
निरूपणम्
॥ ३३९॥
www.jainelibrary.org

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362