Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 354
________________ जिनलाभसूरि विरचिते आत्म प्रबोधग्रन्थे ॥३३८ || Jain Education Interna अव्याबाधा, तामुप - सामीप्येन प्राप्तानामित्यर्थः ॥ अथ यथा नास्ति तथा भंग्योपदश्यते सुरगणसुहं समत्तं सव्वद्धापिंडिअ अनंतगुणं । णवि पावइ मुत्तिसुहं णंताहिं वि बग्गयग्गेहिं ॥ १४१ ॥ व्याख्या - सुरगण सुखं- देवसंघातसुखं समस्तं - संपूर्ण अतीतानागतवर्त्तमानकालोद्भवमित्यर्थः, पुनः सर्वा - द्वापिंडितं सर्वकालसमयगुणितं, तथाऽनंतगुणमिति, तदेवंप्रमाणं किलासत्कल्पनया एकैकाकाशप्रदेशे स्वाप्यते, इत्येवं सकलाकाशप्रदेशपूरणेन यद्यप्यनंतं भवति, तदनंतमप्यनंतैर्वर्णैर्वर्गितं, तथाप्येवं प्रकर्षगतमपि तत्सुखं मुक्तिसुखं न प्राप्नोति, सिद्धिसुखतुल्यं न भवतीत्यर्थः ॥ सांप्रतं सिद्धिसुखस्य निरुपमता दश्यतेजह नाम कोइ मेच्छो, नयरगुणे बहुविहे वियाणंतो। न सक्कड़ परिकहिउं, उवमाए तहिं असंतीए ॥ १४२ ॥ व्याख्या-यथा नाम कश्चिन्म्लेच्छो नगरगुणान् गृहनिवासादीन् बहुविधान् अनेकप्रकारान् विजानन्नपि अरण्यगतः सन् अन्यम्लेच्छानां पुरः परिकथयितुं न शक्नोति, कस्मादित्यत आह-उपमायां तत्रासत्यां, तत्रो|पमाया अभावादित्यर्थः । एष गाथाक्षरार्थः, भावार्थस्तु कथानकगम्यस्तचेदं - एकस्मिन्महारण्ये बहवो म्लेच्छा वसंति, ते च बन्याः पशव इव सर्वदा तत्रैव स्थिताः कालं गमयति । एकदा कश्चिद्राजाऽश्वेनापहृतः सन् तत्रारण्ये संप्राप्तः, तदा एकेन म्लेच्छेन दृष्टः, कोऽपि सत्पुरुषोऽयमिति विचित्य सत्कृतः स्ववसतिं नीतश्च । ततो राजाऽपि तमुपकारिणं मत्वा स्वनगरमध्ये समानीय लपनविलेपनामूल्यवस्खाभरणप्रवरमंदिरमिष्टान्नपानादिभिर्गाढं संतोष्य प्रत्यहं स्वपिंडमिव सयत्नं ररक्ष । ततो वर्षाकाले तस्य चिरनि For Private & Personal Use Only प्रकाशे परमात्म तास्वरूप निरूपणम् ॥ ३३८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362