Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 356
________________ जिनलाभसरि चिरचिते आत्मप्रबोधग्रन्थे ॥ ३४० ॥ Jain Education Inter बाधारहितं सुखं प्राप्ताः, अत एव सुखिनस्तिष्ठति । एतस्यैवार्थस्य सविशेषभावनां यथा सिद्धति बुद्धत्तिय, पारग त्ति य परंपरगढ़. त्ति । उम्मुलकम्मकवया, अजरा अमरा असंगा य ॥ १४६ ॥ णिच्छिणसव्वदुक्खा, जाइजरामरणबंधणविमुक्का | अव्वावाहं सोक्खं, अणुहोति सासयं सिद्धा ॥ १४७ ॥ व्याख्या - सितं - बद्धमष्टप्रकारं कर्म ध्मानं भस्मीकृतं यैस्ते सिद्धाः, ते च सामान्यतः कर्मादिसिद्धा अपि भवंति, यदुक्तं - कम्मे सिप्पे य विज्जाए, मंते जोगे य आगमे । अस्थजुत्त अभिप्पाए, तवे कम्मक्खए इ ॥ १॥ ति । ततः कर्मादिसिद्धव्यपोहायाह- बुद्धा इति, अज्ञाननिद्राप्रसुप्ते जगति अपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धाः, एतेऽपि च संसारनिर्वाणोभयपरित्यागेन स्थितवंतः कैश्चिदिष्यते, ततस्तन्निरासार्थमाह, पारगता इति, पारं- पर्यंत | संसारस्य प्रयोजनसमूहस्य वा गताः पारगताः, इत्थंभूता अपि कैश्चिचहच्छावादिभिरक्रम सिद्धत्वेनापि गीते, ततस्तन्मतव्यपोहार्थमाह-परंपरागता इति, परंपरया ज्ञानदर्शनचारित्ररूपया चतुर्दशगुणस्थान भेदभिन्नया [वा] गताः परंपरागताः, एते च केचित्तत्त्वतोऽनिर्मुक्तकर्माणोऽभ्युपगम्यंते, 'तीर्थन्यक्कारदर्शनादिहागच्छति' इति वचनतः पुनः संसारावतरणाभ्युपगमात्, अतस्तन्मतापाकरणार्थमाह- उन्मुक्तकर्मकवचा, उत्प्राबल्येनापुनर्भवन रूपतया मुक्तं परित्यक्तं कर्मकवचं यैस्ते, अत एवाजराः शरीराभावतो जरसोऽभावात्, अमरा अशरीरत्वादेव प्राणत्या गासंभवात्, असंगा बाह्याभ्यंतर संगरहितत्वात् । तथा निस्तीण लंघितं सर्वं दुःखं यैस्ते निस्तीर्णसर्वदुःखाः, कृत इत्याह-जातिजरामरणबंधन विमुक्तः, जातिर्जन्म जरा-वयोहानिलक्षणा मरणे - प्राणत्यागरूपं बंधनानिं For Private & Personal Use Only चतुर्थ प्रकाशे परमात्म तास्वरूप निरूपणम् ॥३४०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362