Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 347
________________ जिनलाभ चतुर्थ विरचिते आस्मप्रबोधनान्ये श्रित्य वंदनीयाः, श्रूयते च शास्त्र श्रीभरतचक्रवर्तिना वंदितो मरीचिभवे श्रीवीरस्वामिजीव इति ३। तथा ये समस्तयथावस्थितजीवादिपदार्थसार्थावभासिकेवलज्ञानमासाद्य सकललोकलोचनासंदानंदोत्सवकारिनिरुपमप्रा प्रकाशे कारत्रयोद्भासितसमवसरणमध्यभागव्यवस्थापितविचित्ररत्नखंडखचितसिंहासनेषु समासीनाः संतो विशिष्टाष्ट परमात्मतिहार्यादिपरमाहत्यविभूति साक्षादनुभवंति, ते भावजिना उच्यते. तेच सदभूतमार्गदर्शनादिना सर्वातास्वरूप जंतूनां परमोपकारकत्वात् सर्वदा वंदनपूजनस्तवनादियोग्याः ४ । इत्युक्तं चतुर्भिनिक्षेपैर्जिनस्वरूपं, इदमेव च । निरूपणम् निक्षेपचतुष्टयं जिनव्यतिरिक्तकेवलिसिद्धेष्वपि इत्यमेव यथायोगमुपयुज्य संयोज्यं, सर्वेषामपि पदार्थानां निक्षे-16 ।३३॥ | पचतुष्टयाधविनाभावित्वादिति । अथ केवलिनामाहारविषयो विशेषः पिंडनियुक्तिवचनेनोपदश्यते| ओहो सुओवउत्तो, सुइनाणी जइवि गिण्हह असुद्धं । तं केवली वि मुंजइ, अप्पमाणसुअं भवे इयरा ॥ १२७ ॥ | व्याख्या-'ओहों' इत्यत्र तृतीयार्थे प्रथमा, तत ओघेन-सामान्येन श्रुते-पिंडनियुक्त्यादिरूपे आगमे उपयुक्तः सन् तदनुसारेण कल्प्या )ल्पा काल्प्य)ल्पं परिभावयन् श्रुतज्ञानी साधुर्यद्यपि कथमपि अशुद्धमाहारादि गृह्णाति, | तथापि तदशनादिकं केवलज्ञानी अपि भुक्ते, इतरथा श्रुतज्ञानमप्रमाणं भवेत् । तथाहि-छद्मस्थः श्रुतज्ञानबलेन शुद्धं गवेषयितुमीष्टे, न तु प्रकारांतरेण, केवली श्रुतज्ञानिना आगमानुसारेण गवेषितमपि अशुद्धमिति विज्ञाय न भुंजीत तर्हि श्रुतानाश्वासः स्यादिति न कोऽपि श्रुतं प्रमाणत्वेन प्रतिपद्यत, श्रुतज्ञानस्य स्वप्रामाण्ये सर्वक्रियाविलोपप्रसंगः, श्रुतमंतरेण छद्मस्थानां क्रियाकांडस्य परिज्ञानासंभवादिति । इदं हि शिष्यादिसमन्वितं केव. Jain Education Intel Poll For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362