Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 349
________________ जिनलाभसरि विरचिते आत्म प्रबोधग्रन्थे ॥३३३॥ Jain Education Inter कहिं पहिया ? सिद्धा, कहिं सिद्धा पट्टि १ । कहिं बोंदिं चहत्ता णं, कस्थ गंतूण सिज्झई ? ॥ १२९ ॥ व्याख्या- 'कहिं' इत्यत्र तृतीयार्थे सप्तमी, ततोऽयमर्थ:- केन प्रतिहता: स्खलिताः सिद्धाः ? तथा कस्मिन् स्थाने सिद्धाः प्रतिष्ठिताः ? तथा कस्मिन् क्षेत्रे 'बोदिं' शरीरं त्यक्त्वा क्व गत्वा सिद्धयंति-निष्ठितार्था भवंति ? । अलोए पहिया सिद्धा, लोगग्गे य पट्टिया । इहिं बोंदिं चहता णं, तत्थ गंतूण सिज्झई ॥ १३० ॥ व्याख्या - अत्रापि सप्तमी तृतीयार्थे बोध्या, अलोकेन केवलाकाशरूपेण प्रतिहताः - स्खलिताः सिद्धा, अलोके धर्मास्तिकायाद्यभावात्तत्सामीप्यवृत्तिरेवेह स्खलनं, न तु संबंधे सति विघातो, अप्रतिघातत्वात्तेषामिति । तथा लोकस्य पंचास्तिकायात्मकस्याग्रे - मूर्द्धनि प्रतिष्ठिता - अपुनरागत्या व्यवस्थिताः । तथा इह-मनुष्यलोके शरीरं त्यक्त्वा तत्र - लोकाग्रे समांतरप्रदेशांतरास्पर्शनेन गत्वा सिद्धयंति - निष्ठितार्था भवंति । ननु सिद्धानां कर्मरहितत्वात्कथं गतिः संभवति । इति चेन्नैष दोषः, पूर्वप्रयोगादिभिस्तस्याः संभवात्, यदुक्तं श्रीमद्भगवत्यंगे- कहं णं भंते! अकम्मस्स गई पण्णायति ?, गोयमा ! णिस्संगताए निरंगणताए गतिपरिणामेणं बंधणछेयणताएं णिरिंधणताएं पुत्रवप्पओगेणं अकम्मस्स गई पं० इत्यादि । अस्यार्थलेशस्त्वयं-निस्संगतया कर्ममलापगमेन, नीरागतथा मोहापगमेन, गतिपरिणामेन - गतिस्वभावतया अलाबुद्रव्यस्येव, कर्मबंधनच्छेदनेन एरंडफलस्येव, निरिंधनतया कर्मेधनविमोचनेन धूमस्येव, पूर्वप्रयोगेण सकर्मतायां गतिपरिणामस्वेन बाणस्येव अकर्मणोऽपि गतिः प्रज्ञायते । इति । विशेषतोऽलाब्वादिदृष्टांतार्थ योजना तु सूत्रत एवावगंतव्या । अथ तत्र For Private & Personal Use Only चतुर्थ प्रकाशे परमात्म तास्वरूप निरूपणम् ॥ ३३३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362