Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 351
________________ जिनलाभसूरि विरचिते आत्म प्रबोधग्रन्थे ॥ ३३५॥ Jain Education Inter नामेश्च पंचविंशत्यधिकानि पंचधनुःशतानि शरीरप्रमाणं यदेव च तस्य शरीरमानं तदेव मरुदेवाया अपि, 'संघयणं संठाणं, उच्चत्तं चैव कुलगरेहि समं' इति वचनात् मरुदेवा च भगवती सिद्धा, ततस्तस्याः शरीरarrer त्रिभागे पातिते सिद्धावस्थायां सार्द्धानि त्रीणि धनुःशतानि अवगाहना प्राप्नोतीति कथमुक्तप्रमाणा उत्कृष्टावगाहना घटते १ इति चेन्नैवं, मरुदेवाया नाभेः किंचिदूनप्रमाणत्वात् स्त्रियो हि उत्तमसंस्थाना उत्तमसंस्थानेभ्यः पुरुषेभ्यः स्वस्वकालापेक्षया किंचिदूनप्रमाणा भवति, ततो मरुदेवाऽपि पंचधनुः शतप्रमाणा इति न कश्चिद्दोषः, अपि च मरुदेवा हस्तिस्कंधाधिरूढा संकुचितांगी सिद्धा, ततः शरीरसंकोचन भावान्नाधिकावगाहना| संभव इत्यविरोधः । आह च भाष्यकारः – कह मरुदेवामाणं ?, नाभीतो जेण किंचितॄणा सा । तो किर पंचसयचिय, अहवा संकोचतो सिद्धा ॥ १ ॥ इति । चत्तारि ग रपणीओ, रयणितिभागूणिया य बोधव्वा । एसा खलु सिद्धाणं, मज्झिमोगाहणा भणिआ ॥ १३४॥ व्याख्या - चतस्रो रत्नयो- हस्ताः, एका च त्रिभागोना रनिर्वोद्धव्या, एषा खलु सिद्धानां मध्यमावगाहना भणिता | ननु जघन्यपदे सप्तहस्तोच्छ्रितानामागमे सिद्धिरुक्ता, तत एषा जघन्या प्राप्नोति, कथं मध्यमा ! इति चेन्नैवं, तीर्थकरापेक्षया हि जघन्यपदे सप्तहस्तानां सिद्धिरुक्तास्ति, सामान्यकेवलिनां तु हीनप्रमाणानामपि भवति, इदमपि चावगाहनामानं सामान्यसिद्धापेक्षया चिन्त्यते, ततो न कश्चिद्दोषः ॥ x " उपलक्षणं चैतत् तत उत्कृष्टायाः सिद्धावगाहनाया अधो जघन्यायाश्चोपरि सर्वापि मध्यमावगाहना भवतीत्यवगन्तव्यम्” इति प्रवचन० वृत्तौ ११७ पत्रे | For Private & Personal Use Only चतुर्थ प्रकाशे परमात्म तास्वरूप निरूपणम् ॥ ३३५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362