Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 331
________________ जिनलाभबरि विरचिते आत्म प्रबोधग्रन्थे ॥३१५॥ Jain Education Inter ॥ अथ चतुर्थः प्रकाशः ॥ - तत्र परमात्मता द्विधा भवस्थ परमात्मता सिद्धपरमात्मता च । तयोः प्राप्तिप्रकारे सूचकं चेदमार्याद्वयंक्षपकारूढः कृत्वा घनघातिकर्मणां नाशं । आत्मा केवलभूत्या, भवस्थपरमात्मतां भजते ॥ १२४ ॥ तदतु भवोपग्राहक - कर्मसमूहं समूलमुन्मूल्य । ऋजुगत्या लोकाग्रं, प्राप्तोऽसौ सिद्धपरमात्मा ॥ १२५ ॥ व्याख्या - आत्मा-चेतनः क्षपकश्रेणिं समारूढः सन् घनघातिकर्मणां ज्ञानावरणीय १ दर्शनावरणीय २ मोहनीय : अंतराय ४ लक्षणानां चतुर्णामात्मगुणघातककर्मणां नाशं कृत्वा सद्यः प्राप्तधा समस्तलोकालोकप्रकाशक केवलज्ञानकेवलदर्शन संपश्या भवस्थपरमात्मतां भजते, प्राप्नोतीत्यर्थः ॥ ॥ तदनु-ततः पश्चादसावेवात्मा | सद्यः कियता कालेन वा चतुर्दशगुणस्थान चरमसमये भवोपग्राहककर्मणां वेदनीया १ssयु २ नम ३ गोत्र ४ लक्षणानां चतुर्णामा भवस्थायिनां कर्मणां समूहं समूलमुन्मूल्य-मूलत एव विनाश्य ऋजुगत्या- समयांतरप्रदेशांतरास्पर्शनेन लोकाग्रं - सिद्धिस्थानं प्राप्तः सन् सिद्धपरमात्मा भवति, सिद्धपरमात्मतां प्राप्नोतीत्यर्थः ॥ २ ॥ इह भवस्थपरमात्मतायाः स्थितिमानं जघन्यतोंतर्मुहर्त्त, उत्कर्षतो देशोना पूर्वकोटि, सिद्धपरमात्मतायास्तु साद्य पर्यवसितः काल इति बोध्यं । एवंरूपा परमात्मता येषां विद्यते ते परमात्मान उच्यंते, ते च भवस्थकेवलिनः सिद्धाखेति द्विविधा एव । तत्र तावद्भवस्यके व लिनां स्वरूपं किंचिद्दर्यते भवस्थ केवलिनो हि द्विधा - जिना अजिनाश्च । तत्र जिना जिननामकर्मोदयिनस्तीर्थंकराः १, अजिनाः सामान्यकेवलिनः २ । जिना पुनर्निक्षेप भेद For Private & Personal Use Only चतुर्थ प्रकाशे परमात्म तास्वरूप निरूपणम् ॥३१५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362