________________
जिनलाभबरि विरचिते
आत्म
प्रबोधग्रन्थे
॥३१५॥
Jain Education Inter
॥ अथ चतुर्थः प्रकाशः ॥
-
तत्र परमात्मता द्विधा भवस्थ परमात्मता सिद्धपरमात्मता च । तयोः प्राप्तिप्रकारे सूचकं चेदमार्याद्वयंक्षपकारूढः कृत्वा घनघातिकर्मणां नाशं । आत्मा केवलभूत्या, भवस्थपरमात्मतां भजते ॥ १२४ ॥ तदतु भवोपग्राहक - कर्मसमूहं समूलमुन्मूल्य । ऋजुगत्या लोकाग्रं, प्राप्तोऽसौ सिद्धपरमात्मा ॥ १२५ ॥ व्याख्या - आत्मा-चेतनः क्षपकश्रेणिं समारूढः सन् घनघातिकर्मणां ज्ञानावरणीय १ दर्शनावरणीय २ मोहनीय : अंतराय ४ लक्षणानां चतुर्णामात्मगुणघातककर्मणां नाशं कृत्वा सद्यः प्राप्तधा समस्तलोकालोकप्रकाशक केवलज्ञानकेवलदर्शन संपश्या भवस्थपरमात्मतां भजते, प्राप्नोतीत्यर्थः ॥ ॥ तदनु-ततः पश्चादसावेवात्मा | सद्यः कियता कालेन वा चतुर्दशगुणस्थान चरमसमये भवोपग्राहककर्मणां वेदनीया १ssयु २ नम ३ गोत्र ४ लक्षणानां चतुर्णामा भवस्थायिनां कर्मणां समूहं समूलमुन्मूल्य-मूलत एव विनाश्य ऋजुगत्या- समयांतरप्रदेशांतरास्पर्शनेन लोकाग्रं - सिद्धिस्थानं प्राप्तः सन् सिद्धपरमात्मा भवति, सिद्धपरमात्मतां प्राप्नोतीत्यर्थः ॥ २ ॥
इह भवस्थपरमात्मतायाः स्थितिमानं जघन्यतोंतर्मुहर्त्त, उत्कर्षतो देशोना पूर्वकोटि, सिद्धपरमात्मतायास्तु साद्य पर्यवसितः काल इति बोध्यं । एवंरूपा परमात्मता येषां विद्यते ते परमात्मान उच्यंते, ते च भवस्थकेवलिनः सिद्धाखेति द्विविधा एव । तत्र तावद्भवस्यके व लिनां स्वरूपं किंचिद्दर्यते भवस्थ केवलिनो हि द्विधा - जिना अजिनाश्च । तत्र जिना जिननामकर्मोदयिनस्तीर्थंकराः १, अजिनाः सामान्यकेवलिनः २ । जिना पुनर्निक्षेप भेद
For Private & Personal Use Only
चतुर्थ प्रकाशे
परमात्म
तास्वरूप
निरूपणम् ॥३१५॥
www.jainelibrary.org