SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ जिनलाभ- सरि विरचिते आत्म प्रबोधग्रन्थे 43445CSUCCASIL तश्चतुर्धा-नामजिनाः१ स्थापनाजिना: २ द्रव्यजिनाः ३ भावजिनाश्चेति । तेषां स्वरूपं त्विदंनामजिणा जिणनामा, ठवणजिणा जिणंदपडिमाओ। दवजिणा जिणजीवा, भावजिणा समवसरणट्ठ। ॥१२६॥ प्रकाशे व्याख्या-तत्र जिनानां ऋषभाजितसंभवादीनि यानि नामानि ते नामजिना उच्यते, ते च साक्षाजिनगु- परमात्मणवर्जिता अपि परमात्मगुणस्मरणादिहेतुत्वेन परमार्थसिद्धिविधायकत्वात्सुदृष्टिभिः सर्वदा स्मर्तव्या एव । ताखरूप दृश्यते च लोकेऽपि मंत्राक्षरस्मरणाज्जायमाना कार्यसिद्धिरिति १। तथा रत्नस्वर्णरजतादिमय्यः कृत्रिमा अकृ निरूपण त्रिमा वा या जिनेंद्रप्रतिमास्ते स्थापनाजिना उच्यते । तेष्वपि च सामाज्जिनगुणा यद्यपि न विद्यते तथापि ते TC+॥३१६ तात्त्विकजिनखरूपस्मारकत्वात्पश्यतां सम्यग्दृष्टीनां चित्ते परमशांतरसोत्पादकत्वादबोधिजंतूनां सद्बोधिप्राप्ति हेतुभूतत्वात् केवलिवचनैर्जिनतुल्यत्वाच्च शुद्धमार्गानुसारिभिः श्राद्धैर्द्रव्यतो भावतश्च सर्वदा निःशंकमेव वंद-21 |नीयाः पूजनीयाः स्तवनीयाश्च । साधुभिस्तु सर्वसावद्ययोगनिवृत्तत्वेन भावपूजैव कर्तव्या, तथैवागमे प्रतिपा-18 |दितत्वादिति । इह केचित्सुबुद्धिहीना ऐदंयुगीनाः श्रीवीरपरंपरातो बहिर्भूता मिथ्यात्वोदयपराभूताः स्वमतिकल्पितार्थसमारोपकाः श्रीमज्जिनोक्तानेकांतधर्मविलोपकाः प्रादुष्कृतदुष्टवाग्विलासास्तत्त्वतो जैनाभासाः श्रीमत्प-12 रमगुरुवचनोत्थापनजन्यानंतभवभ्रमणभयमवगणय्य स्वगृहीतासत्पक्षस्थिरीकरणार्थ मुग्धजनानां पुरस्तादुत्सूत्र प्ररूपणां कुर्वतःप्रवदंति यत्स्थापनाजिना ज्ञानादिगुणशून्यत्वान्न वंदनादियोग्याः,तद्वंदने हि सद्यः सम्यक्त्वनाशः स्यात्, आगमेऽपि तद्वंदनाथधिकारो नास्ति, किंबहुना ? आधुनिकैरेव स्वमाहात्म्योद्भावनार्थ जिनचैत्यस्थापना ABAR JainEducation Inte For Private & Personal Use Only www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy