Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 337
________________ जिनलाभ परि विरचिते आत्म प्रबोधग्रन्थे ॥३२१॥ Jain Education Intern | कैवेति । तथा श्राविकां विना प्रायेणेत्थं शक्रस्तवादिविधिपरिज्ञानमपि न संभवतीत्यादि सुधीभीर्विचार्यम् । यत्पुनस्तैरुक्तं - सूर्याभदेवेन स्वराजधान्यां मांगल्यार्थ जिनप्रतिमा पूजितेति, तत्रोच्यते - सूत्रे तु अयं पाठो नास्ति, किंतु तत्र सूत्रे किल पूजामाश्रित्य "हियाए सुहाए खेमाए निस्सेयसाए आणुगामियत्ताए भविस्स” इति पाठो विद्यते, तत्र निःश्रेयसशब्दो मोक्षार्थवाचकः सर्वशास्त्रप्रसिद्धोऽस्ति, ततश्च श्रीमदर्हद्वचनात्क्रमेण पूजाया मोक्षफलत्वं विज्ञाय वितथेषु यदृच्छावादिनां वचनेषु कथं विश्वासः क्रियते ? इति । पुनः पूजामाश्रित्य तैरुक्तं - भगवता हिंसा निषिद्धाऽस्ति अतः सा कथं समाचर्यते ? इति । तत्रैवं वक्तव्यं अस्माभिः क्व निगद्यते हिंसा कर्तव्येति । परं भगवता जिनपूजा कुत्रागमे निषिद्धाऽस्ति ? तद्वदत, आगमे तु प्रत्युत सप्तदशविधा पूजा बहुषु प्रदेशेषु विधेयतयोक्ताऽस्ति । किंच श्रीप्रश्नव्याकरणसूत्रे प्रथमसंवरद्वारे यानि अहिंसायाः षष्टि (६०) नामानि प्रोक्तानि तेषु पूजा गृहीताऽस्ति । तथाहि - निव्वाणं १ निब्बुई २ समाही ३ संती ४ इत्यादि यावत् जण्णो ४६ आयत्तणं ४७ जयण ४८ मप्पमाओ ४९ आसासो ५० वीसासो ५१ अभओ ५२ सव्वस्स वि अनाघाओ ५३ चोक्ख ५४ वित्ती ५५ सुई ५६ पूया ५७ विमलभा ५८ सई ५९ निम्मलतरित्ति ६० । एवमाईणि निययगुणनिम्मियाई पज्जवनामाणि होंति, अहिंसाए भगवईए त्ति । इहाहिंसानामसु 'जष्ण' शब्देन 'पूया' शब्देन च देवपूजा गृहीतास्ति, यजनं यज्ञ इत्यादि व्युत्पत्तेः, ततो भवद्भिः सा कथं हिंसायां गण्यते । अन्यच्च सूत्रकृदंगेऽ[न]र्थदंडाधिकारे | 'नागहेऊं भूयहेऊ' इत्यादिपाठे नागभूतयक्षादिहेतुपूजाया हिंसात्वमुक्तमस्ति, न पुनर्जिनपूजायाः, यदि तस्या 1 For Private & Personal Use Only चतुर्थ प्रकाशे परमात्म तास्वरूप निरूपणम् ॥३२१॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362