Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
चतुर्थ
सरि । विरचिते
आत्मप्रबोधग्रन्थे ॥३२२॥
परमात्मतास्वरूप निरूपणम् ॥३२२॥
अपि हिंसात्वं स्यातर्हि सूत्रे 'जिणहे' इत्यपि पठेत. तत्तु न दृश्यते, इति कथं सूत्रवचनमुत्थाप्य भवद्वचनं स्वी|क्रियते ? इति । यत्पुनस्तरक्तं जिनपूजायां षटकायारंभसंभवात् श्रावकैः कथं तदाचरणं क्रियते इति । तत्रैवं वक्तव्यं-जिनधर्मस्याऽनेकांतरूपत्वात्सम्यक्त्विनामेकांतपक्षग्रहो न भवति, अत एव ज्ञानत्रयवताऽपि मल्लिनाथजिनेन वषमित्राणां प्रतिबोधनाय स्वर्णपुत्तलिकायां प्रत्यहं कवलप्रक्षेपः कृतः, तथा सुबुद्धिमंत्रिणा स्वस्वामिनृपप्रतिबोधाय परिखाजलपरावतः कारितः। पुनरप्यागमेषु बहुहस्त्यश्वरथपदातिप्रभृतिपरिकरोपेतकूणिकादिनृपसमाचरितजिनवंदनादिमहोत्सवः प्रतिपदं श्रूयते । एतेषु कार्येषु च बही हिंसा जाता, परं तस्या लाभकार- | णत्वाद्गणना न कृता । ततश्च जिनाज्ञामाश्रित्य सम्यग्यतनया भक्त्या च सत्क्रियाकरणे हि न कोऽपि हिंसा| दोषो, यत्र हिंसा तत्र न जिनाज्ञेत्येवमुच्यते चेत्तर्हि साधूनां प्रतिक्रमणविहारादावपि जिनाज्ञा न स्यात्तत्रापि हिंसायाः संभवात् , तस्मादयं श्रुतव्यबहारोऽस्ति यल्लाभनिमित्तं निरवद्यपरिणामैयतनया च प्रवर्तन, तत्र न तारकर्मबंध इति । अयं चार्थः श्रीमद्भगवत्यंगेऽष्टादशशतस्याष्टमोद्देशके विस्तरतो बोध्या, तत्र हि भावितात्मनोऽनगारस्य युगमात्रदृष्ट्या प्रेक्ष्य प्रेक्ष्य गमनं कुर्वतश्चरणतले कुकुटकुलिंगादिवालश्चेन्नियेत, तर्हि तस्य हिंसा|परिणामाभावादीर्यापथिक्येव क्रिया भवेन्न तु सांपराय(यि)कीत्यायधिकारोऽस्तीति । यश्च पूजायां पुष्पाद्यारंभो | दृश्यते तस्य तु औपचारिकत्वात्सद्भावेन परिहारो भवति । किंच यथा मुनीनां जलोत्तारणसमये जलोपरि करणारंगो भवति तथा श्रावकाणामपि जिनपूजायां पुष्पायुपरि करुणापरिणामो भवतीति हिंसानुबद्धक्लिष्टपरिणा
Jain Education Inter
For Private & Personal use only
Gllww.jainelibrary.org

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362