Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
S
है कृताऽस्ति । किंच तत्पूजनादौ साक्षाजीवहिंसा दृश्यते, यत्र च जीवहिंसा स्यात्तत्र न धर्मो, धर्मस्य दयामूलत्वा-121 अनलामभिधानात्, तस्मान्निजसम्यक्त्वमक्षतं रक्षितुमिच्छतां प्राणिनां तदर्शनमपि कर्तुमयुक्तं, यत्पुनः पूर्वजादिसंतु-12 सरि ला
प्रकाशे विरचिते टयर्थ पिष्पलादिवृक्षमूले सचित्तजलसेचनादौ मिथ्यात्विदेवपूजनादौ च प्रवर्तनं तत्र न सम्यक्त्वनाशः, श्राद्धानां 15
परमात्मसंसारितया एतादृशकार्येष्वधिकृतत्वादित्यादि । अथात्रागमोक्तिमनुसृत्य सद्भुतयुक्त्या तदसत्पक्षनिराकरणाय
तास्वरूप प्रबोधग्रन्थे किंचित्प्रतिवचनमुच्यते-तत्र तावत्स्थापनाजिनानां तात्त्विकजिनस्वरूपस्मारकत्वादिप्राग्दर्शितसद्धर्मयुक्तत्वं प्रत्य- निरूपण ॥३१७॥
क्षादिप्रमाणसिद्धमस्ति, अतस्तेषां सर्वथा गुणशून्यत्वाभावाद्वंदनादियोग्यत्वमेव, तद्दर्शनवंदनादिना हि सद्यः ॥३१७॥ शुभध्यानप्रादुर्भावात्प्राणिनां सम्यक्त्वस्य नैर्मल्यं संपद्यते, तस्मात्तेषां सम्यक्त्वनाशः स्यादित्युक्तिः सर्वथा | मिथ्यात्वमलिकैवेति न सुधीभिरादर्तव्या। किंच यत्र चित्रलिखिताऽपि स्त्री भवति तत्र साधूनामवस्थानमाचारांगादौ निषिद्धमस्ति, साक्षात्स्त्रीगुणवर्जिताया अपि तस्या आकृतिमात्रेणैव विकारकारणत्वात् । ततो यदि तस्या दर्शनाद्विकारः समुत्पद्यते तर्हि परमशांतरसानुकूलसौम्याकारधारिण्याः श्रीजिनप्रतिमाया दर्शनात्सुबु
दीनां सयानसंभवः किं न स्यात् ?, अर्थात्स्यादेवेति सुधीभिर्विवैकतो विभाव्यं । यत्पुनस्तैरागमेषु जिनचैत्यवं. पदनाद्यधिकारस्य नास्तित्वमुक्त, चैत्यस्थापनायाश्चाधुनिकत्वं दर्शितं, पूजायाश्च हिंसारूपत्वेनाधर्मत्वमुक्तं, वृक्षा
दिसेचनमिथ्यात्विदेवपूजनादौ च सम्यक्त्वस्याविध्वंसः प्रोक्तस्तदपि सर्वमुन्मत्तप्रलपनमिव सर्वथैवायुक्तं, यत आगमेषु स्थाने स्थाने जिनचैत्यवंदनपूजनाधिकारो विद्यते, अत एव च तत्स्थापनाया अपि प्राचीनत्वं सिद्धं ।
15- 15535AGA
Main Education Inteme!
For Private & Personal use only
w
ww.jainelibrary.org

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362