Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 318
________________ जिनलाभपरि विरचिते मात्म प्रबोधग्रन्थे ॥ ३०२ ॥ Jain Education International तर्हि जंतूनामियत्कालं संसारे पर्यटनं न स्यादित्यादिचिंतनं बोधिदुर्लभत्व भावना । यदुक्तं-पंचिदियतणाइअ - सामग्गीसंभवे वि अइदुलहा । तत्तावबोहरूवा, बोही सुही (सोहि ) जिअस्स जओ ॥१॥ ति ११ । अथ द्वादशी धर्मकथकोऽर्हन्निति भावना यथा-इह संसारे वीतरागत्वेन सर्वदा परमार्थकरणोद्यतैर्विमल केवलज्ञानाबलोकितसकललोकालोकैः श्रीमद्भिरद्भिर्विना एतादृकसुनिर्मलसाधुश्राद्धसंबंधिसद्भूतधर्म कथयितुं न कोऽपि समर्थोऽस्ति । कुतीर्थिकप्रणीतानि तु वचनानि अज्ञानमूलत्वेन पूर्वापरविरुद्धानि हिंसादिदोषदुष्टानि च संति, अतस्तानि प्रत्यक्षमसद्भूतान्येव । यत्पुनस्तेष्वपि कुत्रचित्यासत्यादिपोषणं दृश्यते तद्वचनमात्रमेव न हि तत्वतः किंचित् । ततश्च तत्त्वतः शुद्धखरूपधारिण्याः सकलजगजंतुतारिण्याः श्रीमदर्हद्वाण्याः कियद्वर्णनं क्रियते १, यदीयमेकमपि वाक्यं यथा कथंचिदपि कर्णगोचरीभूतं सत् रौहिणेयस्येव प्राणिनो महोपकारकारकं संपयते, इत्यादि चितनं द्वादशी भावना उक्तं च-धम्मो जिणेहिं निरुबहि-उवयारपरेहिं सुदु पण्णत्तो । समणाणं समणोवा - सयाण दसहा दुवालसहा ॥ १ ॥ इति १२ । इह रौहिणेयवृत्तांतस्त्वेवं राजगृहनगर्यां श्रेणिको राजा, तस्याभयकुमारो नाम सर्वबुद्धिनिधिः पुत्रोऽभवत् । इतच तनगरसमीपबतिवैभारगिरिगुहायां क्रूरो लोहखुरचौरोऽवसत् स च राजगृहनगर लोकानामेव दारैर्धनै अप्रयासेन कामार्थों साधयन् कालं गमयामास । तस्य च रोहिण्यां भार्यायां रौहिणेयो नामातिक्रूरः पुत्रो जातः । अथ लोहखुरः स्वमृत्युकाले पुत्रमाकार्येति जगाद - 'हे वत्स ! चेत्स्वहितं वांछसि तर्हि मदुक्तामेकां शिक्षां शृणु, इह किल योऽसौ For Private & Personal Use Only वृतीय प्रकाशे सर्वविरति वर्ष ॥ ३०२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362