Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 319
________________ बिनलाभ दतीय विरचिते आत्म सर्वपिरति ख वात्रयस्थो वीरजिनो मृदुवाक्यैर्वक्ति तस्य वचनमुत्तरकाले दारुणत्वात्वया कदापि न श्रोतव्यं । एवं पुत्रं शिक्षयित्वा स्वयं प्राणत्यागं चकार । ततो रोहिणेयोऽपि पितुः शिक्षा स्मरन्नित्यं चौयं करोति स्म । अथान्यदा श्रीवीरप्रभुस्तत्र समवसृतः, देवैः समयमरण निर्मितं, भगवता च भव्यानां पुरः सद्धर्मदेशना प्रारब्धा, तदा स चौरश्चौर्यार्थ राजगृहं वजन् समवसरणसमीपं संप्राप्तः, तत्रैवं च चितितवान्-यद्यनेन मार्गेण व्रजामि तर्हि जैन्या वाचः श्रवणं स्यात्, अन्यो मार्गस्तु न विद्यते, अथ किं करोमि ?, यदि वाऽलं विषादेन, कर्णरंध्रयोरंगुल्यो क्षिप्त्वा ब्रजामीति विचित्य तथैव कृत्वा त्वरितैः पदैरचलत्। तदा सत्वरं ब्रजतस्तस्य चरणे गाढः कंटको भग्नः, तेनानुद्धृतेनासौ पदमात्रमपि अग्रे गंतुं न शशाक । ततोऽनिच्छतोऽपि कर्णादेकामंगुलीमाकृष्य तया बाह्यशल्यमुद्धरतस्तस्य तदांताशल्यविशोधनी देवस्वभाववर्णिकेत्थं वीरवाणी कर्णगोचरं प्राप्ता, तथाहि-अणिमिसनयणा मणकन्ज-साहणा पुप्फदामअमिलाणा। चउरंगुलेण भूमि, न छिवंति सुरा जिणा विति ॥१॥ त्ति। अथैष हा!! बहु श्रुतमिति चिंतां कुर्वन् वेगात्कंटकं समुद्धृत्य पुनरंगुल्या कर्ण पिधाय राजगृहपुरं ययौ, तन्त्र स स्वैरं चौयं कृत्वा पुनर्गिरिगुहां प्राविशत्, परं चरणशल्योद्धरणसमये श्रुतां वीरवाणी दुरुद्धरं शल्यमिव मन्वानो नित्यं चित्ते दुनोति स्म। अथ निरंतरं सकलेऽपि नगरेतेन मुष्यमाणे सति अत्यंतदुःखितो लोकोऽवसरे राजानं प्रति स्वदुःखं निवेदितवान् । राजाऽपि मधुरवचनैर्लोकमाश्चास्य तलारक्षं माह-'अरे! चौरनिग्रहेण लोकरक्षां किं न करोषि। | सोऽप्यूचे-'हे देव ! रोहिणेयो नाम अतिदुर्ग्रहः कश्चित्तस्करः प्रादुर्भूतोऽस्ति, तन्निग्रहार्थ बहव उपाया कृताः, GR Jain Education Inter For Private & Personal use only Paww.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362