________________
बिनलाभ
दतीय
विरचिते आत्म
सर्वपिरति ख
वात्रयस्थो वीरजिनो मृदुवाक्यैर्वक्ति तस्य वचनमुत्तरकाले दारुणत्वात्वया कदापि न श्रोतव्यं । एवं पुत्रं शिक्षयित्वा स्वयं प्राणत्यागं चकार । ततो रोहिणेयोऽपि पितुः शिक्षा स्मरन्नित्यं चौयं करोति स्म । अथान्यदा श्रीवीरप्रभुस्तत्र समवसृतः, देवैः समयमरण निर्मितं, भगवता च भव्यानां पुरः सद्धर्मदेशना प्रारब्धा, तदा स चौरश्चौर्यार्थ राजगृहं वजन् समवसरणसमीपं संप्राप्तः, तत्रैवं च चितितवान्-यद्यनेन मार्गेण व्रजामि तर्हि जैन्या वाचः श्रवणं स्यात्, अन्यो मार्गस्तु न विद्यते, अथ किं करोमि ?, यदि वाऽलं विषादेन, कर्णरंध्रयोरंगुल्यो क्षिप्त्वा ब्रजामीति विचित्य तथैव कृत्वा त्वरितैः पदैरचलत्। तदा सत्वरं ब्रजतस्तस्य चरणे गाढः कंटको भग्नः, तेनानुद्धृतेनासौ पदमात्रमपि अग्रे गंतुं न शशाक । ततोऽनिच्छतोऽपि कर्णादेकामंगुलीमाकृष्य तया बाह्यशल्यमुद्धरतस्तस्य तदांताशल्यविशोधनी देवस्वभाववर्णिकेत्थं वीरवाणी कर्णगोचरं प्राप्ता, तथाहि-अणिमिसनयणा मणकन्ज-साहणा पुप्फदामअमिलाणा। चउरंगुलेण भूमि, न छिवंति सुरा जिणा विति ॥१॥ त्ति। अथैष हा!! बहु श्रुतमिति चिंतां कुर्वन् वेगात्कंटकं समुद्धृत्य पुनरंगुल्या कर्ण पिधाय राजगृहपुरं ययौ, तन्त्र स स्वैरं चौयं कृत्वा पुनर्गिरिगुहां प्राविशत्, परं चरणशल्योद्धरणसमये श्रुतां वीरवाणी दुरुद्धरं शल्यमिव मन्वानो नित्यं चित्ते दुनोति स्म। अथ निरंतरं सकलेऽपि नगरेतेन मुष्यमाणे सति अत्यंतदुःखितो लोकोऽवसरे राजानं प्रति स्वदुःखं निवेदितवान् । राजाऽपि मधुरवचनैर्लोकमाश्चास्य तलारक्षं माह-'अरे! चौरनिग्रहेण लोकरक्षां किं न करोषि। | सोऽप्यूचे-'हे देव ! रोहिणेयो नाम अतिदुर्ग्रहः कश्चित्तस्करः प्रादुर्भूतोऽस्ति, तन्निग्रहार्थ बहव उपाया कृताः,
GR
Jain Education Inter
For Private & Personal use only
Paww.jainelibrary.org