________________
परि
प्रकार
सर्वविसी
आत्म
BARSA
+16+
18 परं केनाप्युपायेन स धत्तुं न शक्यते, अथ देवः स्वयमेव नीजां तलारक्षतां गृह्णातु '। इति तेनोक्ते सति राजा लिनलाभ
अभयकुमारसन्मुखं पश्यति स्म । स प्रोचे-'हे तात ! सप्तदिनमध्ये चौरं समानयामि, नोचेम्कि बहुक्तिभिर्भचिरचिते वद्भिश्चौरस्य दंडेनाहं दण्डय, इत्युक्त्वाऽभयकुमारः सर्वतः चौरस्थानानि यत्नेन पश्यन्नपि कापि तस्करं न लेभे।
ततः षष्ठे दिने संध्यायां नगरमध्ये लोकं कोलाहलान्निवार्य वपाहिः सर्वतो भटानमुंचत् । तस्मिन् दिनेऽपशकुअपोषग्रन्थे नैर्वारितोऽपि स चौरो नगरमध्ये प्रविश्य यावत्कस्यापि गृहे चौर्यमारब्धवान् तावत्पदे पदे स्थितैर्योधैर्मिलित्वा ॥३०४॥ एकहक्कया त्रासितः सन स ततः पलाय्य ऊर्थोत्पातेन प्राकारमारुह्य बहिः पतन् योधैर्धतः, प्रातःकाले च
तैरभयाय समर्पितोऽभय कुमारेण च राजे दत्तः । ततो राज्ञा तं चोरितद्रव्यरहितं दृष्ट्वा त्वं कोऽसीति पृष्टे सति | 8स प्राह-'हे राजन्नहं तु शालिग्रामवासी दुर्गचंडो नाम राजकरदायी कृषीवलोऽस्मि, इह किंचित्स्वकार्य कृत्वा रात्री
स्वग्रामाय चलितस्तत्र भवद्योधैर्भापितः सन् भीत्या वप्रमुल्लंध्य बहिःपतन्नमीभिर्भटैश्चौरधिया धृतोऽस्मि । अथ हे विचारज्ञ! त्वं विचारय, अहं चौरश्चेन्मां निगृहाण, यद्वा मयि हते सति अभयकुमारो जीवति तर्हि तथा कुरु'। इति तदुचो निशम्य भूपतिस्तं दृढबंधं विधाय प्रत्ययार्थ तत्र ग्रामे निजभृत्यं प्राहिणोत् । स ग्रामस्तेन चौरेण
पूर्वमेव संकेतितोऽभूत्, यतोऽसावन्यां महीं मुष्णमपि तस्य ग्रामस्य पालकः पोषकश्च विद्यते । तत्र गत्वा भूप| भृत्येन तद्वार्ता पृष्टः सन् सकलोऽपि ग्रामो जगाद-'सत्यमत्र दुर्गचंडः कृषीवलो वसति, स च गतेऽह्नि नगरं गतोऽभूत्परमद्यापीह नागतस्तेनाय सकलो जनस्तस्योदंतं ज्ञातुमातुरः स्थितोऽस्ति । ततस्तेन भृत्येन पयादा
SSSSEMORECAST
%A5
Jain Educate
For Private & Personal Use Only
www.jainelibrary.org