________________
जिनलाभपरि
विरचिते
मात्म
प्रबोधग्रन्थे ॥ ३०२ ॥
Jain Education International
तर्हि जंतूनामियत्कालं संसारे पर्यटनं न स्यादित्यादिचिंतनं बोधिदुर्लभत्व भावना । यदुक्तं-पंचिदियतणाइअ - सामग्गीसंभवे वि अइदुलहा । तत्तावबोहरूवा, बोही सुही (सोहि ) जिअस्स जओ ॥१॥ ति ११ । अथ द्वादशी धर्मकथकोऽर्हन्निति भावना यथा-इह संसारे वीतरागत्वेन सर्वदा परमार्थकरणोद्यतैर्विमल केवलज्ञानाबलोकितसकललोकालोकैः श्रीमद्भिरद्भिर्विना एतादृकसुनिर्मलसाधुश्राद्धसंबंधिसद्भूतधर्म कथयितुं न कोऽपि समर्थोऽस्ति । कुतीर्थिकप्रणीतानि तु वचनानि अज्ञानमूलत्वेन पूर्वापरविरुद्धानि हिंसादिदोषदुष्टानि च संति, अतस्तानि प्रत्यक्षमसद्भूतान्येव । यत्पुनस्तेष्वपि कुत्रचित्यासत्यादिपोषणं दृश्यते तद्वचनमात्रमेव न हि तत्वतः किंचित् । ततश्च तत्त्वतः शुद्धखरूपधारिण्याः सकलजगजंतुतारिण्याः श्रीमदर्हद्वाण्याः कियद्वर्णनं क्रियते १, यदीयमेकमपि वाक्यं यथा कथंचिदपि कर्णगोचरीभूतं सत् रौहिणेयस्येव प्राणिनो महोपकारकारकं संपयते, इत्यादि चितनं द्वादशी भावना उक्तं च-धम्मो जिणेहिं निरुबहि-उवयारपरेहिं सुदु पण्णत्तो । समणाणं समणोवा - सयाण दसहा दुवालसहा ॥ १ ॥ इति १२ । इह रौहिणेयवृत्तांतस्त्वेवं
राजगृहनगर्यां श्रेणिको राजा, तस्याभयकुमारो नाम सर्वबुद्धिनिधिः पुत्रोऽभवत् । इतच तनगरसमीपबतिवैभारगिरिगुहायां क्रूरो लोहखुरचौरोऽवसत् स च राजगृहनगर लोकानामेव दारैर्धनै अप्रयासेन कामार्थों साधयन् कालं गमयामास । तस्य च रोहिण्यां भार्यायां रौहिणेयो नामातिक्रूरः पुत्रो जातः । अथ लोहखुरः स्वमृत्युकाले पुत्रमाकार्येति जगाद - 'हे वत्स ! चेत्स्वहितं वांछसि तर्हि मदुक्तामेकां शिक्षां शृणु, इह किल योऽसौ
For Private & Personal Use Only
वृतीय प्रकाशे सर्वविरति वर्ष
॥ ३०२ ॥
www.jainelibrary.org