________________
जिनलाभबरि
विरचिते
मात्म
प्रबोधग्रन्थे ॥२६२॥
Jain Education International
व्याख्या - तत्र प्रायश्चितं दशधा, यदाहुः - आलोयण १ पडिकमणे २, मीस ३ विवेगे ४ तहा विउस्सग्गो ५ | तब ६च्छे ७ मूल ८ अणवट्टप्पया ९ य पारंचियं १० चेव ||१|| तत्रालोचना-गुरोः पुरतः स्वदुष्कृतस्य वचसा प्रकटनं १, तथा प्रतिक्रमणं - दोषात्प्रतिनिवर्त्तनमपुनःकरणतया मिथ्यादुष्कृतप्रदानमित्यर्थः, न तु गुरुसमक्षमालोचनं सहसाऽनुपयोगतः श्लेष्मादिप्रक्षेपस्येव २, तथा यद्दुष्कृतमनयोरेकतरेण न शुध्यति तच्छुद्धधर्थमालोचनाप्रतिक्रमणयोरुभयोर्विधानं मिश्र ३, तथा यदकृत्यं आधाकर्मायाहारग्रहणप्रभृतिकं गृहीताहारादेस्त्यागे एव कृते शुध्यति, नान्यथा, तच्छुद्ध्यर्थं यस्तस्याहारादेः परित्यागः स विवेकः ४ तथा व्युत्सर्गो- दुःस्वप्रजनितदुष्कृतादिशु
काय चेष्टानिरोधः ५, तथा तपः- प्रागुक्तोपायैरशुद्धयतो दुष्कृतस्य शुद्धयर्थं यथायोग्यं निर्विकृत्यादिषण्मासांततपश्चरणं ६, तथा छेदः - शेषचारित्रपर्यायरक्षानिमित्तं संदूषितपूर्व पर्यायच्छेदनं ७, तथा कस्मिंश्चिन्महादोषे समुत्पन्ने सति निरवशेषपर्यायोच्छेदं विधाय भूयो महाव्रतारोपणं मूलं ८ तथा क्रौधादेरुदयात्प्रतिसेवितस्य दुष्कृ तस्य शुद्धयर्थं यथोक्तं तपो यावन्न कृतं तावदूवतेषु लिंगे वा न स्थाप्यते इत्यनवस्थाप्यस्तस्य भावोऽनवस्थाप्यता ९, तथा मुनिधातराजवधादिमहाऽकृत्य सेवनात् लिंगक्षेत्रकालतपसां पारंपर्यं, तमंचति गच्छतीति पारांचितं, एतच्चाव्यक्तलिंगधारिणां जिनकल्पिकप्रतिरूपाणां क्षेत्राद्बहिः स्थितानां सुविपुलं तपः कुर्वतामाचार्याणामेव जघन्यतः षण्मासानुत्कर्षतो द्वादश वर्षाणि यावद्भवति, ततश्चातिचारपारगमनानंतरं ते प्रव्राज्यंते, नान्यथेति, १० । एतेषु दशसु अंत्यं प्रायश्चित्तद्वयं प्रथम संहननी चतुर्द्दशपूर्वी च यावद्भवति तावदेव स्यात्, ततः परं तु दुःप्रसभसूरिं याव
For Private & Personal Use Only
तृतीय प्रकाशे
देश विरति
स्वरूपं
॥२६२॥
www.jainelibrary.org