SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ जिनलाभबरि विरचिते मात्म प्रबोधग्रन्थे ॥२६२॥ Jain Education International व्याख्या - तत्र प्रायश्चितं दशधा, यदाहुः - आलोयण १ पडिकमणे २, मीस ३ विवेगे ४ तहा विउस्सग्गो ५ | तब ६च्छे ७ मूल ८ अणवट्टप्पया ९ य पारंचियं १० चेव ||१|| तत्रालोचना-गुरोः पुरतः स्वदुष्कृतस्य वचसा प्रकटनं १, तथा प्रतिक्रमणं - दोषात्प्रतिनिवर्त्तनमपुनःकरणतया मिथ्यादुष्कृतप्रदानमित्यर्थः, न तु गुरुसमक्षमालोचनं सहसाऽनुपयोगतः श्लेष्मादिप्रक्षेपस्येव २, तथा यद्दुष्कृतमनयोरेकतरेण न शुध्यति तच्छुद्धधर्थमालोचनाप्रतिक्रमणयोरुभयोर्विधानं मिश्र ३, तथा यदकृत्यं आधाकर्मायाहारग्रहणप्रभृतिकं गृहीताहारादेस्त्यागे एव कृते शुध्यति, नान्यथा, तच्छुद्ध्यर्थं यस्तस्याहारादेः परित्यागः स विवेकः ४ तथा व्युत्सर्गो- दुःस्वप्रजनितदुष्कृतादिशु काय चेष्टानिरोधः ५, तथा तपः- प्रागुक्तोपायैरशुद्धयतो दुष्कृतस्य शुद्धयर्थं यथायोग्यं निर्विकृत्यादिषण्मासांततपश्चरणं ६, तथा छेदः - शेषचारित्रपर्यायरक्षानिमित्तं संदूषितपूर्व पर्यायच्छेदनं ७, तथा कस्मिंश्चिन्महादोषे समुत्पन्ने सति निरवशेषपर्यायोच्छेदं विधाय भूयो महाव्रतारोपणं मूलं ८ तथा क्रौधादेरुदयात्प्रतिसेवितस्य दुष्कृ तस्य शुद्धयर्थं यथोक्तं तपो यावन्न कृतं तावदूवतेषु लिंगे वा न स्थाप्यते इत्यनवस्थाप्यस्तस्य भावोऽनवस्थाप्यता ९, तथा मुनिधातराजवधादिमहाऽकृत्य सेवनात् लिंगक्षेत्रकालतपसां पारंपर्यं, तमंचति गच्छतीति पारांचितं, एतच्चाव्यक्तलिंगधारिणां जिनकल्पिकप्रतिरूपाणां क्षेत्राद्बहिः स्थितानां सुविपुलं तपः कुर्वतामाचार्याणामेव जघन्यतः षण्मासानुत्कर्षतो द्वादश वर्षाणि यावद्भवति, ततश्चातिचारपारगमनानंतरं ते प्रव्राज्यंते, नान्यथेति, १० । एतेषु दशसु अंत्यं प्रायश्चित्तद्वयं प्रथम संहननी चतुर्द्दशपूर्वी च यावद्भवति तावदेव स्यात्, ततः परं तु दुःप्रसभसूरिं याव For Private & Personal Use Only तृतीय प्रकाशे देश विरति स्वरूपं ॥२६२॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy