SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ बिनलाभसूरि चिरचिते आत्म प्रबोधग्रन्ये ॥२६२॥ Jain Education Interna अथ क्रमायातस्य तपसः किंचित्स्वरूपं वर्यते तपो द्विधा - वाचमाभ्यंतरं च । तत्पुनरेकैकं षोढा, तत्र बाह्यं यथाअणसण मूणोरिया- वित्तीसंखेवणं रसचाओ । कायकिलेसो संली-णया य बज्झो तबो होइ ॥ ९९ ॥ व्याख्या- तत्रानशनमाहारत्यागः, तद् द्विधा - इत्वरं यावत्कथिकं च । तत्रेत्वरं वीरतीर्थे नमस्कारसहितादिषण्मासांतं, प्रथमजिनतीर्थे च वर्षांतं, शेषजिनतीर्थेषु तु अष्टमासांतं, यावत्कथिकं तु पादपोपगमने १ गितमरण २ भक्तपरिज्ञा ३ भेदात्रिविधं । तत्र भक्तपरिज्ञायां त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याचष्टे, शरीरपरिकर्म च स्वतः परत कारयति १, इंगितमरणे तु नियमाच्चतुर्विधाहारत्यागः परतः परिकर्मविवर्जनं च भवति, स्वयं पुनरिंगितदेशमध्ये उद्वर्त्तनादिपरिकर्म करोत्यपि २, पादपोपगमने तु पादपवत्स्वकीय मंगमुपांग वा सम विषम देशेषु यद्यथा | पतितं तत्तथैव धारयन् निश्चलः सन् तिष्ठतीति ३ । तथा ऊनोदरिका बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलयाए, अठ्ठावीसं भवे कवला । १ ॥ इत्येवंरूपस्य निजाहारमानस्य संक्षेपरूपा बोध्या २। तथा वृत्तेर्भिक्षाचर्यायाः संक्षेपो- द्रव्यक्षेत्राद्यभिग्रहविशेषैः संकोचनं वृत्तिसंक्षेपः ३ । तथा रसा- दुग्धादयस्तस्परिहारो रसत्यागः ४ । तथा कायस्यासनबंधेन लोचादिना वा कष्टकरणं कायक्लेशः ५ । तथा संलीनता - गुप्तता, सा चेंद्रिय १ कषाय २ योग ३. विषया, स्त्रीपशुपंडकादिवर्जितस्थानेऽवस्थानरूपा ६ च । एतत्तपः क्रियमाणं लोकैरपि ज्ञायते कथंचित्कुतीर्थिकैरपि क्रियते इति बाह्यमुच्यते । अथाभ्यंतरं यथा पायच्छित्तं विणओ, वेयावचं तहेव सज्झाओ। झाणं उत्सग्गो वि य, अभितरओ तवो होइ ॥ १०० ॥ For Private & Personal Use Only तृतीय प्रकाशे देशविरवि स्वरूपं ॥२६१ ॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy