________________
बिनलाम
तृतीय प्रकाशे
विरचिते
देशविरदि
॥२६०n
॥२६॥
अतस्तनिवारणायात्र कमप्युपायं कुर्वे'। इति विचित्य सबः संप्रासबुद्धिना तेन मुनिना चैत्यस्य मध्यभागस्थितेन ६ दीपेन स्वस्थ वस्त्राद्युपकरणसमूहं सर्व प्रज्ज्वाल्य तदस्मना समंतात्स्वगात्रमनुलिप्य रजोहरणमध्यगतां यष्टिं |च हस्ते गृहीत्वा वेश्याश्रितकोणाहरस्थे चैत्यकोणे गत्वा निश्चितीभूय स्थितं । वेश्या तु तस्य तारभयानकं स्वरूपं
वीक्ष्य मनस्यतिविभ्यती मौनं कृत्वा एकांतप्रदेशे तस्थौ । ततः प्रातःसमये नृपेण राज्ञी प्रति साधोरनाचारं दर्श |यितुमिच्छताऽत्याग्रहेण तां स्वसार्थे गृहीत्वा बहुभिर्नगरमुख्यजनैः सह तत्र गत्वा पूजकाय प्रोक्तं-भोः
शीघ्रं कपाटावुद्घाटय, यथा मातुर्दर्शनं कुर्मः । तेन च नृपादेशाद्यावत्कपाटावुदघाटितौ तावत्स मुनिःकरे यष्टिं गृहीत्वा ननस्वरूपः सन् सत्वरं मुखात् "अलखे"ति शन्दमुच्चरन् ततो निःसृत्य नृपादिसर्वजनमध्ये भूत्वाऽन्यत्र जगाम । तत्पृष्ठतो वेश्याऽपि निःसृता। तदा नृपस्तु तत्स्वगुरोरेव दुःस्वरूपं विलोक्यातीव लज्जितःसन् अधोमुखीभूय स्थितः। तदा राज्या भणित-'स्वामिन्! काऽत्र चिंता, मिथ्यात्वोदयेन प्राणिनां का का विडंबना नोत्पद्यते? इति। ततो नृपेण सद्यः समुत्थाय स्वस्थानमागत्य पूजकाय क्रोधात्तत्स्वरूपे पृष्टे सति समोचे-'स्वामिन् मयातु भवदुक्त्यनुसारेणैव कार्य कृतमासीत्, अधुना पुनर्थदिदं विपरीतं जातं तदहं न वेद्मि।' ततो राज्ञातां वेश्यां समाहूय | तत्स्वम्पं पृष्टं, तदा वेश्यया सर्वोऽपि वृत्तांतो निगदितो, मुनिमनोधैय च वर्णितं । ततो राजा तत्प्रवृत्तिश्रवणाद्राज्ञीवचनाच्च प्रतिबुद्धः सन् सम्यक्त्वी श्रावको बभूव । स मुनिस्तु पुनर्मुनिवेनं समादाय तत्कषायस्थानमालो च्य शुद्धसंयममाराध्य प्रांतेसद्गतिभाग्बभूव । इति शासनोहाहनिवारणनिमित्तमायाविधायिमुनिवृत्तांतः॥
HARPRAKAR
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org