________________
तृतीय प्रकाशे देशविरति
खरूपं ॥२६३॥
दष्टविधमेव प्रायश्चित्तं बोध्यमिति १। तथा विनयो ज्ञानादिभेदात्सप्तधा, तत्र ज्ञानदर्शनचारित्रविनयो ज्ञानादेजिनलाभ-टा
भक्त्यादिरूपः ३, मनोवाकायविनयस्तु आचार्यादिषु सर्वकालमकुशलानां मनोवाकायानां निरोधः, कुशलानां विरचितेतचोदीरणं ६, औपचारिकविनयश्च गुर्वादीनामनुकूलप्रवृत्यादिरूपः ७ । अयं सप्तविधोऽपि विनयो मुनिभिः सर्वदा
आत्म- समाचरणीयः २। तथा वैयावृत्त्यमाचार्यादीनामन्नपानादिसंपादनविधौ व्यापृत[त्वं व्यं ३ । तथा सुष्टु आ-मप्रबोधप्रन्ये दियाऽकालवेलादिपरिहारेण पौरुष्यपेक्षया वाऽध्यायोऽध्ययनं स्वाध्यायः, स च पंचधा-वाचनापृच्छनापराव॥२६३॥
बार्तनाऽनुप्रेक्षाधर्मकथाभेदात् , तत्रानधीतस्य सूत्रस्य शास्त्रोक्तविधिना गुरुमुखाद्ग्रहणं वाचना १, ततः संदेहे | है सति पृच्छना २, पृच्छया निश्चितस्य सूत्रस्य अविस्मरणार्थ गुणनं परावर्तना ३, सूत्रवदर्थस्यापि चिंतनमनुप्रेक्षा | ४, अभ्यस्तसूत्रार्थस्य परं प्रत्युपदेशदानं धर्मकथा ५। इह सूत्रं च द्विविधं-अंगप्रतिष्टमंगवाह्यं च, तत्र-पायदुर्ग २ जंघो ४ रू ६, गायदुगद्धं तु ८ दो य वाहू अ १० । गीवा ११ सिरं १२ च पुरिसो, बारस अंगो सुअविसिठ्ठो ॥१॥ एवं विधेषु प्रवचन पुरुषस्यांगेषु प्रविष्टं-व्यवस्थितं अंगप्रविष्टं द्वादशविधं । तथाहि-प्रवचनपुरुषस्य पादयुगं स्वाचारसुत्रकृते अंगे, जंघादिकं स्थानसमवायौ, अरूद्विक भगवतीज्ञाताधर्मकांगे, गात्रद्विकं पृष्ठोदररूपं उपा. सकांतकृदशांगे, बाहुद्विकं अनुत्तरोपपातिकदशा प्रश्नव्याकरणं च, ग्रीवा विपाकश्रुतं, शिरश्च दृष्टिवाद इति । अंगबाध तु आवश्यकोपांगप्रकीर्णकादिभेदादनेकविधं बोध्यं । ___ अथ दीक्षाग्रहणानंतरं यावद्भिर्वर्यस्य वाचना ग्राह्या तत्स्वरूपं व्यवहारसूत्रोक्तं गाथाभिर्दश्यते
ऊन
Jain Education inte
For Private & Personal use only
|www.jainelibrary.org