Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 310
________________ बतीय प्रकाशे .. टिरोमकूपांश्च निष्पादयति, अष्टमे मासे ईषदननिष्पन्नो भवति, नवमे मासे च सुनिष्पन्नसमस्तांगोपांगो भवति। जिनलाभसरि किंच गर्भावस्थायां मातृजीवरसहरणी पुत्रजीवरसहरणी चेति द्वे नाड्यौ स्तः, तयोर्मध्ये आधा मातृजीवप्रतिविरचिते | बद्धा सती पुत्रजीवस्पृष्टाऽस्ति, तया पुत्रजीवो मातृभुक्तनानाविधरसविकृतीनामेकदेशेन सह ओजआहारं गृह्णाति, देशविर बारम- द्वितीया तु पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती, तया पुनः स जीवः स्वशरीरं चिनोति, न पुनस्तदवस्थायां ख प्रबोधग्रन्थेाकार कावलिकाहारं गृह्णाति, नापि उच्चारप्रस्रवणादयस्तदानीं तस्य संभवति । यत्पुनस्तदाहारद्रव्यं स गृह्णाति तत्स्व-६॥२९४॥ ॥२९॥ स्य श्रोत्रादिपंचेंद्रियतयाऽस्थिमज्जाकेशरोमनखतया च परिणमयति । पुनर्गर्भस्थो जीवो जनन्यां शयनं कुर्वाणायां स्वपिति, तस्यां जागृत्यां च जागर्ति, तस्यां सुखवत्यां सुखी भवति दुःखवत्यां च दुःखी भवति । एवं कर्मो| दयतो जीवः परमान्धकारेऽमेध्यभृते गर्भप्रदेशे महादुःखमनुभवन्निवसति। ततो नवमे मासेऽतिक्रांते वा वर्तमाने वाऽनागते वा माता स्त्री पुरुष २ नपुंसक ३ बिंब ४ रूपाणां चतुर्णा मध्येऽन्यतमं प्रसूते, तत्र शुक्राल्पत्वे शोणिताधिक्ये च स्त्री जायते, तद्वैपरीत्ये तु पुरुषः स्यात्, द्वयोः साम्ये च ६नपुंसको भवेत्, केवलशोणितसमायोगे तु निर्जीवमांसपिंडरूपं विंबं स्यादिति । कश्चित्पुनर्जन्तुराविर्भूतप्रभूतपा-12 पाभिभूतः सन् वातपित्तादिदूषिते देवादिस्तंभिते वा गर्भे द्वादश वर्षाणि निरंतरं तिष्ठति । इयं च गर्भस्य भPवस्थितिरस्ति । कायस्थितिः पुनर्नराणां गर्भस्य चतुर्विंशतिवर्षाणि, तथाहि-कश्चिज्जीवो द्वादश वर्षाणि गर्भ स्थित्वा तदंते च मृत्वा तथाविधदुष्कर्मवशात्तत्रैव गर्भस्थकलेवरे समुत्पद्य पुनर्द्वादश वर्षाणि जीवंस्तिष्ठतीत्येवं HGA4 Jain Education temational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362