________________
बतीय
प्रकाशे
..
टिरोमकूपांश्च निष्पादयति, अष्टमे मासे ईषदननिष्पन्नो भवति, नवमे मासे च सुनिष्पन्नसमस्तांगोपांगो भवति। जिनलाभसरि
किंच गर्भावस्थायां मातृजीवरसहरणी पुत्रजीवरसहरणी चेति द्वे नाड्यौ स्तः, तयोर्मध्ये आधा मातृजीवप्रतिविरचिते | बद्धा सती पुत्रजीवस्पृष्टाऽस्ति, तया पुत्रजीवो मातृभुक्तनानाविधरसविकृतीनामेकदेशेन सह ओजआहारं गृह्णाति,
देशविर बारम- द्वितीया तु पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती, तया पुनः स जीवः स्वशरीरं चिनोति, न पुनस्तदवस्थायां ख प्रबोधग्रन्थेाकार
कावलिकाहारं गृह्णाति, नापि उच्चारप्रस्रवणादयस्तदानीं तस्य संभवति । यत्पुनस्तदाहारद्रव्यं स गृह्णाति तत्स्व-६॥२९४॥ ॥२९॥
स्य श्रोत्रादिपंचेंद्रियतयाऽस्थिमज्जाकेशरोमनखतया च परिणमयति । पुनर्गर्भस्थो जीवो जनन्यां शयनं कुर्वाणायां स्वपिति, तस्यां जागृत्यां च जागर्ति, तस्यां सुखवत्यां सुखी भवति दुःखवत्यां च दुःखी भवति । एवं कर्मो| दयतो जीवः परमान्धकारेऽमेध्यभृते गर्भप्रदेशे महादुःखमनुभवन्निवसति।
ततो नवमे मासेऽतिक्रांते वा वर्तमाने वाऽनागते वा माता स्त्री पुरुष २ नपुंसक ३ बिंब ४ रूपाणां चतुर्णा मध्येऽन्यतमं प्रसूते, तत्र शुक्राल्पत्वे शोणिताधिक्ये च स्त्री जायते, तद्वैपरीत्ये तु पुरुषः स्यात्, द्वयोः साम्ये च ६नपुंसको भवेत्, केवलशोणितसमायोगे तु निर्जीवमांसपिंडरूपं विंबं स्यादिति । कश्चित्पुनर्जन्तुराविर्भूतप्रभूतपा-12
पाभिभूतः सन् वातपित्तादिदूषिते देवादिस्तंभिते वा गर्भे द्वादश वर्षाणि निरंतरं तिष्ठति । इयं च गर्भस्य भPवस्थितिरस्ति । कायस्थितिः पुनर्नराणां गर्भस्य चतुर्विंशतिवर्षाणि, तथाहि-कश्चिज्जीवो द्वादश वर्षाणि गर्भ
स्थित्वा तदंते च मृत्वा तथाविधदुष्कर्मवशात्तत्रैव गर्भस्थकलेवरे समुत्पद्य पुनर्द्वादश वर्षाणि जीवंस्तिष्ठतीत्येवं
HGA4
Jain Education
temational
For Private & Personal Use Only
www.jainelibrary.org