Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 306
________________ ३०५ उद्देशक : २, मूलं : ३६, [भा. ९७७] स्थापना द्विकम् । सम्प्रतिद्रव्यक्षेत्रकालद्विकप्रतिपादनार्थमाह[भा.९७८] चित्तभचित्तं एक्केक्कयस्य जे जत्तियाउदुभेया । खेत्ते दुपएसादी दुसमयादी उकालंमि ।। वृ- द्रव्यद्विकं द्विविधमागमतो नोआगमतञ्च । तत्रागमतो द्विकशब्दार्थज्ञाता तत्र चानुपयुक्तः; नोआगमतस्त्रिविधं.-ज्ञशरीर भव्यशरीरतद्व्यतिरिक्तभेदात् । तत्र ज्ञशरीरभव्यशरीरे प्राग्वत् तद्व्यतिरिक्तं सचित्तमचित्तं च एकैकस्य ये यावन्तो द्विकभेदाः सम्भवन्ति ते सर्वे वक्तव्याः । ये चेमे सचित्तं द्रव्यद्विकं द्विधा संसारस्थं निर्वृत्तंच, संसारस्थं द्विधा एकेन्द्रियमनेकेन्द्रियं च । तत्रैकेन्द्रियं पञ्च प्रकारं-पृथिव्यप्तेजोवायुवनस्पतिभेदात् । एकैकमपि द्विधा-पर्याप्तमपर्याप्तं च । अनेकेन्द्रियं द्विधासंख्यातवर्षायुष्कमसंख्यातवर्षायुष्कंच । एकैकं द्विधापर्याप्तमपयारतं च । निर्ववित्तमपि द्विधाअनन्तरसिद्ध परम्परसिद्धच ।अथवा सचित्तं त्रिविधं । तद्यथा-द्विपदंचतुष्पदमपदंच । तत्र द्विपदंद्वौ पुरुषावित्यादि, चतुष्पदं द्वौ बलीव वित्यादि, अपदं द्वौ वृक्षावित्यादि । अचित्तं द्वौ परमाणू द्वौ द्विप्रदेशिकौ त्रिप्रदेशिकौ यावत् द्वौ संख्यात्प्रदेशिकौ द्वावनन्तप्रदेशिको संख्यातस्य संख्याता भेदाः, असंख्यातस्य असंख्याता अनन्तस्य अनन्ताः । उक्तं द्रव्यद्विकमधुना क्षेत्रद्विकमाह-खेत्ते दुपदेसादी क्षेत्रक्षेत्रविषयंद्विकंद्वीप्रदेशादिद्वावाकाशप्रदेशावादिशब्दाद्विप्रदेशावगाढंवा द्रव्यंक्षेत्रद्विकं क्षेत्रद्विके तस्यावस्थानात् । यदि वा द्वे भारते द्वे एरावते इत्यादि परिग्रहः । उक्त क्षेत्रद्विकं, कालद्विकमाह द्विसमयादिकंद्वौसमयावादिशद्वात् द्वेआवलिकेद्वौमुहूर्तावित्यादिपरिग्रहः ।अथवा द्विसमयस्थितिकं द्रव्यं कालद्विकेऽवस्थानात् कालद्विकमादिशब्दात्यावलिकास्थितिकादिपरिग्रहः । उक्तं कालद्विकमधुनाभावद्विकमाह[भा.९७९] भावे पसत्थमियर होइपसत्थंतु नाणिणोनाणे । केवलि छउमंनाणे नोनाणे दिठिचरणेय ।। वृ- भावद्विकं द्विधा आगमतो नो आगमतश्च । तत्रागमतो द्विकशब्दार्थज्ञाता तत्र चोपयुक्तः, उपयोगोभावनिक्षेपइति वचनात्, नोआगमतोद्विधा तद्यथाप्रशस्तमितरच्च,इतरन्नामाऽप्रशस्तं । तच्चेदं रागो द्वेषश्च, प्रशस्तंद्विधा-ज्ञानंनोज्ञानंच । तत्रज्ञाने ज्ञानविषयंतिकमिदं तद्यथाकैवलिकंछाद्यस्थिकं च ।नोज्ञानेनोज्ञानविषयं द्विकंदृष्टिश्चरणंच । दृष्टिःसम्यक्त्वं,चरणंचारित्रम् एतदेवसप्रभेदंप्ररूपयति[भा.९८०] एक्कक्कं पिय तिविहं, सठाणे नत्थिखइय अइयारो । उवसामिएसु दोसु, अइयारी होज्ज सेसेसु ।। वृ- एकैकमपि दर्शनं चरणंच प्रत्येकमित्यर्थः । त्रिविधं त्रिप्रकारं । तद्यथा-क्षायिकं औपशमिकं क्षायोपशमिकंच तत्र क्षायिकंसम्यक्त्वंक्षायिकसम्यग्दृष्टेः । औपशमिकमुपशमश्रेण्याम् ।शेषकालं क्षायोपशमिकं, । चरणमपि क्षायिकं क्षपकनिर्ग्रन्थस्य, औपशमिकमुपशमश्रेण्यामन्यदा क्षायोपशमिकम् । तत्रक्षायिकेज्ञानेदर्शनेचारित्रेचस्वस्थाने नास्त्यतीचारः, तथाहि केवलिनस्तिष्वपि ज्ञानदर्शनचारित्रेषुक्षायिकेषुवर्तमानस्यनतद्विपया काचिदपिविराधना, परस्थानेषुसंभवेदपि, तथाहि श्रुतकेवल्यादेः क्षायिकेदर्शनवर्तमानस्य दर्शनेनास्ति विराधनाज्ञानचरणयोस्तुभजनेति । उवसामिए विदोसुतिद्वयोर्दर्शनचरणयोरौपशमिकेभावेवर्तमानयोः स्वस्थानेनास्त्यतीचारः ।औपशमिकं हिदर्शनं [2129 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482