Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 439
________________ ४३८ व्यवहार - छेदसूत्रम्-१-३/७५ पणहानीए जयंतो अत्तठाए विएमेव ।। वृ-द्विविधस्य प्रति परिवारकस्य सिद्धपुत्रोदेश्चेत्यर्थः असत्यभावे तेषां पार्श्वस्थपश्चात्कृतादीनामाहारादिकं स सर्वात्मना करोति । तत्रापि स प्रथमतः तदलाभे पञ्चकपरिहान्या यतमानोऽशुद्धमानमपि पञ्चकपरिहानियतना नाम स शुद्धालाभे पञ्चकप्रायश्चित्तस्थान-प्रतिसेवनादुत्पादयति। तदसंभवे दशकप्रायश्चित्तस्थानप्रतिसेवनात एवं तावत्यावच्चतुर्गुरुकमसंप्राप्तः । तथापि से तस्योत्पादयति । एवमेवात्मार्थं पञ्चकपरिहान्या यतते । किमुक्तं भवति ? उद्गमादिदोप-त्रयशुद्धमलभमानः पञ्चकादियतनया त्रिभिरपि दोषैरशुद्धं गृह्णाति । स तथा कुर्वन्नपि ज्ञाननिमित्तं प्रवृत्तत्वात् कृतयतनाविषयपुरुषकारत्वात् रागद्वेषविराहितत्वाच्चशुद्ध इति । मू. (७६)निगंथस्सणं नवडहरतरुणस्स आयरियउवज्झाए विसंभेजा नो से कप्पइ अनायरिय उवज्झाइयाए होत्तए कप्पइ से पुव्वं आयरियं उद्दिसावेत्ता तओ पच्छा उवज्झायं से किमाहु भंते ? दुसंगहिएसमणे निगंथेतंजहा आयरिएणंउवज्झाएणय ।। वृ-अथास्यसूत्रस्य कः संबंधः आह [भा.१५७१] आयरियाणं सीसो परियाओवावि अहिकतो एस । सीसाण केरिसाणवठाविज्जइसोउआयरिओ ।। वृ-पूर्वसूत्रेआचार्यस्थापनीय उक्तःआचार्याणांचशिष्योभवतीतितद्वक्तव्यतार्थमिदंसूत्रमथवा पूर्वसूत्रेषुपर्यायोऽधिकृतोऽस्मिन्नपिचसूत्रेएषएवपर्यायस्तथाचनवडहरतरुणग्रहणंयदिवानन्तरसूत्रे य आचार्यः स्थापनीय उक्तः । स कीदृशानां शिष्याणां स्थाप्यते इतीदमनेन सूत्रेणोच्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या निर्ग्रन्थस्य नमितिवाक्यालङ्कारेनवडहरतरुणस्यनवस्यडहरस्यतरुणस्य वाआचार्यसहितउपाध्याय आचार्यउपाध्यायआचार्योपाध्यायश्चेत्यर्थः । विष्कंभोयावत्भ्रियतेततः सेतस्यनवडहरतरुणस्या नाचार्योपाध्यायस्यसतोभवितुंवर्तितुंन कल्पते किन्तुपूर्वमाचार्यमुद्देशाप्य स्थापयित्वा ततः पश्चादुपाध्यायमुद्देशाप्यैवमाचार्योपाध्यायस्य सतो भवितुंकल्पते । से किमाहुभंते इति से शब्दोऽथशब्दार्थः । अथ भदन्त किं कस्मात्कारणात् भगवन्त एवमाहुः-सूरिराहद्वाभ्यामाचार्योपाध्यायाभ्यां संगृहीतो द्विसंगृहीतः श्रमणो निर्ग्रन्थः सदा भवति । तद्यथाआचार्येणोपाध्यायेनचएष सूत्रसंक्षेपार्थः । व्यासार्थंतुभाष्यकृद्विवक्षुःनवादिशब्दार्थानामर्थमाह - . [भा.१५७२] तेवरिसो होइनवोआसोलसगंतुडहरगंबेति । तरुणो चत्तासत्तरूणमज्झिमोथेरती सीसो।। वृ-प्रव्रज्यापर्यायेणयस्यत्रीणिवर्षाणिनाधिकमित्येषत्रिवर्षोभवितनवः । जन्मपर्यायेण चत्वारि वर्षाणि आरभ्ययावदाषोडशकंवर्षमत्राडमर्यादायां यथाआपाटलिपुत्रावृष्टो देवः किमुक्तंभवति? पाटलीपुत्रं मर्यादीकृत्यारतो वृष्टो देवः इत्यत्र ततोऽयमर्थः यावत् परिपूर्णानि पञ्चदशवर्षाणि षोडशाद्वर्षादक वा तडहरकं ववन्ते समयविदः । ततो जन्मपर्यायेण षोडशवर्षाण्यारभ्य यावच्चत्वारिंशद्वर्षाणि तावत्तरुणः । ततः परं यावत्सप्ततिरेकेन वर्षेणोना तावन्मध्यमः । ततः परं सप्ततेरारभ्य स्थविरः शेषः । [भा.१५७३] अनवस्सविडहरगतरुणगस्य नियमेनसंगहं बिंति । एमेव तरुणमज्झेथेरम्मिय संगहोनवए ।। वृ-यःप्रव्रज्यापर्यायेण त्रिवर्षोत्तीर्णः सोऽनवक उच्यते । तस्यानवकस्यापिआस्तांनवकस्येत्यपि शब्दार्थः । डहरकः सन् तरुणको डहरकतरुणकस्तस्य द्वादशवर्षाण्यःरतो यावत् पञ्चदशवर्षाणि तावदित्यर्थः । नियमेन संग्रहमभिस्थापितो आचार्योपाध्यायानां संग्रहणं ब्रुवते अभिनवस्थापिता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482