________________
४३८
व्यवहार - छेदसूत्रम्-१-३/७५ पणहानीए जयंतो अत्तठाए विएमेव ।। वृ-द्विविधस्य प्रति परिवारकस्य सिद्धपुत्रोदेश्चेत्यर्थः असत्यभावे तेषां पार्श्वस्थपश्चात्कृतादीनामाहारादिकं स सर्वात्मना करोति । तत्रापि स प्रथमतः तदलाभे पञ्चकपरिहान्या यतमानोऽशुद्धमानमपि पञ्चकपरिहानियतना नाम स शुद्धालाभे पञ्चकप्रायश्चित्तस्थान-प्रतिसेवनादुत्पादयति। तदसंभवे दशकप्रायश्चित्तस्थानप्रतिसेवनात एवं तावत्यावच्चतुर्गुरुकमसंप्राप्तः । तथापि से तस्योत्पादयति । एवमेवात्मार्थं पञ्चकपरिहान्या यतते । किमुक्तं भवति ? उद्गमादिदोप-त्रयशुद्धमलभमानः पञ्चकादियतनया त्रिभिरपि दोषैरशुद्धं गृह्णाति । स तथा कुर्वन्नपि ज्ञाननिमित्तं प्रवृत्तत्वात् कृतयतनाविषयपुरुषकारत्वात् रागद्वेषविराहितत्वाच्चशुद्ध इति ।
मू. (७६)निगंथस्सणं नवडहरतरुणस्स आयरियउवज्झाए विसंभेजा नो से कप्पइ अनायरिय उवज्झाइयाए होत्तए कप्पइ से पुव्वं आयरियं उद्दिसावेत्ता तओ पच्छा उवज्झायं से किमाहु भंते ? दुसंगहिएसमणे निगंथेतंजहा आयरिएणंउवज्झाएणय ।।
वृ-अथास्यसूत्रस्य कः संबंधः आह [भा.१५७१] आयरियाणं सीसो परियाओवावि अहिकतो एस ।
सीसाण केरिसाणवठाविज्जइसोउआयरिओ ।। वृ-पूर्वसूत्रेआचार्यस्थापनीय उक्तःआचार्याणांचशिष्योभवतीतितद्वक्तव्यतार्थमिदंसूत्रमथवा पूर्वसूत्रेषुपर्यायोऽधिकृतोऽस्मिन्नपिचसूत्रेएषएवपर्यायस्तथाचनवडहरतरुणग्रहणंयदिवानन्तरसूत्रे य आचार्यः स्थापनीय उक्तः । स कीदृशानां शिष्याणां स्थाप्यते इतीदमनेन सूत्रेणोच्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या निर्ग्रन्थस्य नमितिवाक्यालङ्कारेनवडहरतरुणस्यनवस्यडहरस्यतरुणस्य वाआचार्यसहितउपाध्याय आचार्यउपाध्यायआचार्योपाध्यायश्चेत्यर्थः । विष्कंभोयावत्भ्रियतेततः सेतस्यनवडहरतरुणस्या नाचार्योपाध्यायस्यसतोभवितुंवर्तितुंन कल्पते किन्तुपूर्वमाचार्यमुद्देशाप्य स्थापयित्वा ततः पश्चादुपाध्यायमुद्देशाप्यैवमाचार्योपाध्यायस्य सतो भवितुंकल्पते । से किमाहुभंते इति से शब्दोऽथशब्दार्थः । अथ भदन्त किं कस्मात्कारणात् भगवन्त एवमाहुः-सूरिराहद्वाभ्यामाचार्योपाध्यायाभ्यां संगृहीतो द्विसंगृहीतः श्रमणो निर्ग्रन्थः सदा भवति । तद्यथाआचार्येणोपाध्यायेनचएष सूत्रसंक्षेपार्थः । व्यासार्थंतुभाष्यकृद्विवक्षुःनवादिशब्दार्थानामर्थमाह - . [भा.१५७२] तेवरिसो होइनवोआसोलसगंतुडहरगंबेति ।
तरुणो चत्तासत्तरूणमज्झिमोथेरती सीसो।। वृ-प्रव्रज्यापर्यायेणयस्यत्रीणिवर्षाणिनाधिकमित्येषत्रिवर्षोभवितनवः । जन्मपर्यायेण चत्वारि वर्षाणि आरभ्ययावदाषोडशकंवर्षमत्राडमर्यादायां यथाआपाटलिपुत्रावृष्टो देवः किमुक्तंभवति? पाटलीपुत्रं मर्यादीकृत्यारतो वृष्टो देवः इत्यत्र ततोऽयमर्थः यावत् परिपूर्णानि पञ्चदशवर्षाणि षोडशाद्वर्षादक वा तडहरकं ववन्ते समयविदः । ततो जन्मपर्यायेण षोडशवर्षाण्यारभ्य यावच्चत्वारिंशद्वर्षाणि तावत्तरुणः । ततः परं यावत्सप्ततिरेकेन वर्षेणोना तावन्मध्यमः । ततः परं सप्ततेरारभ्य स्थविरः शेषः । [भा.१५७३] अनवस्सविडहरगतरुणगस्य नियमेनसंगहं बिंति ।
एमेव तरुणमज्झेथेरम्मिय संगहोनवए ।। वृ-यःप्रव्रज्यापर्यायेण त्रिवर्षोत्तीर्णः सोऽनवक उच्यते । तस्यानवकस्यापिआस्तांनवकस्येत्यपि शब्दार्थः । डहरकः सन् तरुणको डहरकतरुणकस्तस्य द्वादशवर्षाण्यःरतो यावत् पञ्चदशवर्षाणि तावदित्यर्थः । नियमेन संग्रहमभिस्थापितो आचार्योपाध्यायानां संग्रहणं ब्रुवते अभिनवस्थापिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org