________________
उद्देशकः३, मूलं: ७६, [भा. १५७३]
४३९ चार्योपाध्यायसंगृहीतेन तेनावश्यं वर्तितव्यमिति भावः । तथा यः प्रव्रज्यापर्यायेण त्रीणि वर्षाणि नाद्याप्युत्तीर्णः सन् नवकस्मिन्नवके तरुणेन मध्यमे स्थिरे तरुणे मध्ये स्थविरे चशब्दाड्डहरं च एवं पूर्वोक्तेनैवप्रकारेणसंग्रहब्रुवते । किमुक्तंभवति? नवकस्यडहरस्यतरुणस्यवामध्यमस्यवास्थविरस्य वानवकत्वादेव नियमादभिनवाचार्योपाध्यायसंग्रहो वेदितव्य इति । [भा.१५७४] वाखलु मज्झिमथेरगीयमगीयंतिहोइनायव्वं ।
उद्दिसिणाउ अगीएपुव्वायरिएउगीयत्थो ।। . वृ- वाशब्दो विभाषायां । खलु निश्चितं त्रिवर्षपर्यायोत्तीर्णत्वेनानवके मध्यमे स्थविरे च प्रत्येकं गीतेअगीतेचविभाषणंनानात्वंज्ञातव्यं तदेवाहउद्दिसणाउअगीतेअगीतार्थे उद्देशना ।इयमत्रभावनायेमध्यमास्थविरा वा त्रिवर्षपर्यायोत्तीर्णा अप्यगीतार्थास्तेनियमात्यः स्थापितो गणधरस्तस्य शिष्या बध्यते इति गीतार्थे पुनः स्थविरे मध्यमे च पूर्वाचार्यः पूर्वाचार्यसंग्रहः ये मध्यमाः स्थविरा गीतार्थाः पूर्वाचार्यदिशंधारयन्तीति । [भा.१५७५] नवडहरतरुणगस्सा विहीए विसुभियंमि आयरिए ।
पच्छन्ने अभिसेतो नियमा पुनसंगहेठाइ ।। वृ-नवश्चडहरकश्चतरुणश्चसमाहारो द्वन्द्वः । तस्यपुनःसङ्ग्रहार्थमाचार्येविष्कंभितेमृतेविधिना नियमेनान्यस्यगणधरस्याभिषेकः कर्तव्यः अविधिनाअभिषेककरणेप्रायश्चित्तंचत्वारोगुरुकामासाः । कोऽत्र विधिरिति चेदुच्यते आचार्यः कालगतोन प्रकाश्यते यावदन्यो गणधरोनस्थापितस्तथा चाहपच्छन्नेतिआचार्येकालगतेप्रच्छन्ने प्रदेशेऽभिषेकः करणीयः । एतदेवाह[भा.१५७६] आयरिएकालगएनपसागए अट्ठविएगणहरम्मि ।
स्नेव अणभिसित्तेरज्जेक्खोभो तहागच्छे ।। वृ-अस्थापितेऽन्यस्मिन् गणधरे आचार्यः कालगतो न प्रकाश्यते । अत्रदृष्टान्तो राजा । तथाहियथाराजाकालगतस्तावन्नप्रकाश्यते यावदन्योनाभिषिच्यते । अन्यथा अनभिषिक्तेराज्ञिराज्यक्षोभो भवति दायादैः परस्परविरोधतः सर्वं राज्यं विलुप्यते इत्यर्थः । तथा गच्छेऽप्यन्यस्मिन्नस्थापिते गणधरे यद्याचार्यःकालगतः प्रकाश्यतेतदा गच्छक्षोभोभवति तमवाह[भा.१५७७] अनाहोहावणसच्छंद खित्तेतेनासपक्खपरपक्खे ।
__लयकंपणाय तरुणेसारणमाणावमाणेय ।। वृ-केषांचिदनाथा वयं जाता इत्यवधावनं भवेत् । केषांचित् सच्छंदत्तिस्वच्छन्दचारिता । अपरे केचितचिक्षाःक्षिप्तचित्ताभवेयुः । तथास्तेनाःस्वपक्षेपरपक्षेचोत्तिष्ठन्ति ।लताया इवसाधूनांकम्पनं। तथा तरुणानामाचार्यपिपासयान्यत्रगमनंतथाऽसारणासंयमयोगेषुसीदतांपुनः संयमाध्वन्यप्रवर्तमामा तथा मानापमानंच | साम्प्रतमेतानेव दोषान् व्याचिख्यासुः प्रथमतोऽनाथावधावनस्वच्छन्दचारिता क्षिप्तचित्तानि व्याख्यानयति[भा.१५७८] जायामो अनाहोत्तिअनहि गच्छंति केइतोहावे ।
सच्छंदावभमंती केइखित्ताव होज्जाहि ।। वृ-बाला वृद्धास्तरुणा वा केचिदगीतार्था आचार्याणां विप्रयोगे जाता वयमनाथा इति विचिन्त्य केचिदन्यत्रगच्छान्तरेगच्छन्ति,केचिदवधावेयुः, तथा केचिन्मन्दधर्मश्रद्धाकागणादपक्रम्यस्वच्छन्दा भ्रमन्ति । अपरे केचिदाचार्यविप्रयोगतः क्षिप्ताः क्षिप्तचित्ता अपगतचित्ता भवेयुः ।
स्वपक्षे परपक्षेस्तेनान् लताकम्पनं चाह[भा.१५७९] पासत्थ गिहित्थादी उन्निखावेज्ज खुडुगादीए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org