Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 464
________________ उद्देशकः ३, मूलं : ९४, [भा. १७१६] ४६३ वृ-परिवारगौरवं १ ऋद्धिगौरवं २ धर्मकथी अहमिति गौरवं ३ वाद्यहमितिगौरवं ४ क्षपकोऽहमिति गौरवं ५ नैमित्तिकोऽहमिति गौवं ६ विद्यागौरवं ७ रत्नाधिकतागौरव ८ मित्येवममुना प्रकारेणाष्टधा प्रकारं गौवंभवति । [भा.१७१७] बहुपरिवारमहिड्डी निक्खंतो वाविधम्मकहवादी। जइगारवेणजंपिज्जइ अगीतोभणइइणमो ।। वृ-बहुपरिवारो १ महर्द्धिकोवा निष्क्रान्तो २ धर्मकथी ३वादी ४ उपलक्षणमेतत्क्षपको नैमित्तिको विद्यावान् रात्निको वा यदि गोरवेणा गीतार्थः सन् जल्पेत यूयमस्मानेव प्रमाणीकुरुथेति, तर्हि स इदं वक्ष्यमाणंभण्यते । तदेवाह[भा.१७१८] जत्थ उपरिवारेणं पयोयणंतत्थभणिहह तुझे । इट्टीमंतेसुतहाधम्नकहा वायकज्जे वा ।। [भा.१७१९] . पवयणकज्जेखमगोनेमित्तीचेव विज्जसिद्धेय । रावनिएवंदनायंजहिं दायव्वंतहिं भणेज्जा ।। वृ-परिवारगौरवानिदंभण्यते-यत्रसङ्घस्यप्रेषणादिकेकार्यसमुत्पन्नेपरिवारेणप्रयोजनं भविष्यति, तत्र यूयं भणिष्यथ, । तत्र प्रमाणी करिष्यध्वे यूयं नात्र प्रस्तुते व्यवहारे इतिभावः, | तथा ऋद्धिमत्सु वक्तव्यं धर्मकथा प्रयोजने वादी वादकार्ये । इयमत्रभावना-ऋद्धिगौरवोपेतो महार्द्धिक एवमुच्यते । यदिलोकेन कृत्यं भविष्यति, तदा त्वं प्रमाणीकृत्य तत्पार्थात्लोकोऽनुवर्तिष्यते, धर्मकथी भण्यते । यदि राजादीनां धर्मः कथयितव्यो भविष्यति, तदा युष्मान्वयमभ्यर्थयिष्यामो, यथा कथय कथानकं सम्प्रति राजादीनामिति, वादी भण्यते यदा परवादी कश्चनाप्युत्थास्यति तदा तवोपरोधः करिष्यते यथा निगृह्णीथ कथमप्येनंवादिनमिति । तथाक्षपको नैमित्तिको विद्यासिद्धोवा प्रवचनकार्ये उपालम्भनीयो यथा क्षपकःयदा संघस्य कृत्ये देवतया प्रयोजनं भविष्यति, तदा त्वं कार्योत्सर्गं कारयित्वा सा आकम्पयिष्यते, । नैमित्तिको भण्यते यदि सङ्घस्य निमित्तेन प्रयोजनं भविष्यति, तदात्वमभ्यर्थयिष्यसे, । विद्यासिद्धो भण्यते,-यदा संघस्य कार्य विद्यया साधनीयं भविष्यति, तदा त्वत्पार्धात्साधयिष्यते, रात्निकेरत्नाधिके पुनरेवंभण्यते-यत्र पाक्षिकादिवन्दनकंदातव्यंभविष्यति तत्रयूयंभणिष्यत । किमिदानीमायासंकुरुतेति । एतच्चसतान्प्रतिमाह-- [भा.१७२०] नहुगारवेणसक्का ववहरिउंसंघमज्झयारंमि, नासेइ अगीयत्थो,अप्पाणंचेवकज्जंतु ।। वृ- बहुनैव संघमध्ये गौरवेण शक्यं व्यवहर्त्तव्यमन्यैर्जिनाराधकैर्गीताफर्निवारणात्केवलं सोऽगीतार्थस्तथा दुर्व्यवहारं कुर्वन् आस्मीयमेव कार्य नाशयति । उत्सूत्रप्ररूपणातोऽबोधिफलनिविडकर्मबन्धनात्तथाचाह[भा.१७२१] नासेइअगीयत्थो, चउरंगंसव्वलोएसारंगं । नठमि उचउरंगे, नहुसुलभं होइचउरंगं ।। वृ-अगीतार्थोगौरवेनयोव्यवहरन्अबोधिफलकर्मबन्धनाच्चतुर्णामङ्गानांसमाहारश्चतुरङ्गमानुषत्वं श्रुतिः । श्रद्धासंयमे च वीर्यमित्येवं रूपं कथंभूतमित्याह-सर्वस्मिन्निपि लोके सारमङ्गं स्वरूपं यस्य तत्सर्वलोकसारांगं नाशयति । नष्टे च तस्मिन् चतुरंगेन बहुनैव भूयो भवति । सुलभं चतुरंगं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482