Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 446
________________ उद्देशक : : ३, मूलं : ७८, [भा. १६०५] ४४५ वृ- तत्र चिकित्सायां विधिं निर्विकृतिकादिकमतिक्रान्ते ततः पश्चात् य उपभुक्ता उपभुक्तभोगाः स्थविरास्तैः सहितः समेतोऽस्थानादिषु वेश्यापाटकादिरूपेषु वसतिगृह्णाति । तत्रच विधिः प्रोगेवोक्तः । तथाप्यनुपशान्ती - [ भा. १६०६ ] अठ्ठाण सद्दहत्थे अचित्ततिंरिक्खभंगदोच्चेणं । एगदुगतिनिदारा समुद्धस्स उवठिए गुरुगा ।। वृ- अस्थाने वेश्यापाटके यत्र परिचारणा शब्दाः श्रूयन्ते तत्र शब्दापूर्णे उपभुक्तभोगस्थविरैः सह तिष्ठति तत्रायं विधि स एव प्रागुक्तः । तथाप्यतिष्ठति कृत्रिमाया तिर्यग्योनावचित्तायां मैथुनकर्म एक द्वौ त्रीन् वारान् करोति । तथाप्यनुपशान्तौ कृत्रिमायां मनुष्ययोनौ तथाप्यतिष्ठति भंगदोच्चेणंति द्वितीयेन भङ्गेन स्वलिङ्गे परलिङ्गे इत्येवंरूपेण स्वगण एवं स्थितेन शून्यगृहे शून्यदेवकुलिकायां वा निरपायेनापवादपदतः प्राकृतायाः स्त्रिया वृत्तिप्रदानतः । तत्र प्रवेशितायां एकं द्वौ त्रीन् वारान् मैथुनमाचरति । ततः शुद्धस्योपशान्तवेदस्याकरणाय उपस्थितस्याभ्युतस्य गाथायां सप्तमी षष्ठ्यर्थे प्रायश्चित्तं चत्वारो गुरुकाः । मू. (७९) गणावच्छेइए गणावच्छेइयत्तं अनिक्खिवित्तामेहणधम्मं पडिसेवेज्जा, जावजीवाए तस्स तप्पत्तियं नो कप्पइ, आयरियत्तं वा जाव गणावच्छेइयत्तं उद्दिसित्तए वा धारेत्तए वा ।। वृ- गणावच्छेदको गणावच्छेदकत्वमनिक्षिप्य मैथुनप्रकारं प्रतिसेवते । तस्य यावज्जीवं यावत्प्राणधारणं करोति तावत्प्रत्ययं गणावच्छेदिकत्वमनिक्षिप्य यन्मैथुनधर्मप्रतिसेवनं तत्करणं न कल्पते, । आचार्यत्वं वा प्रवर्तित्वं वा स्थविरत्वं वा उद्देष्टुमनुज्ञातुं स्वयं वा धारयितुं, इदमेकं सूत्रं, द्वितीयमाह । । भू. (८०) गणावच्छेइए गणावच्छेइयत्तं निक्खिवित्ता मेहुणधम्मं पडिसेवेज्जा, तिनि संवच्छराणि जाव धारेत्तए वा ।। वृ- गणावच्छेदको गणावच्छेदकत्वं निक्षिप्य गुरुसमक्षं मुक्त्वा मैथुनधर्मं प्रतिसेवतस्तस्य त्रीणि संवत्सराणि यावत्प्रत्ययं न कल्पते । आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा अनुज्ञातुं स्वयं वा धारयितुंत्रिषु संवत्सरेषु व्यतिक्रान्तेषु चतुर्थसंवत्सरे प्रस्थिते स्थितस्य, वर्तमानस्य उपशान्तस्य उपरतस्य प्रतिविरतस्स निर्विकारस्स एवं से तस्य कल्पते आचार्यत्वं वा गणावच्छेदिकत्वं उद्देष्टुं वा धारयितुं वा, अत्र पदानामर्थभावना भिक्षुसूत्रे इव निरवशेषा द्रष्टव्याः । तथा च द्वे सूत्रे गणावच्छेदके उक्ते तथा आचार्योपाध्येऽपि तथा एवं आयरियउवज्झाएवि एवं गणावच्छेदके इवाचार्योपाध्यायेऽपि द्वे सूत्रे ते चैवं । 1 मू. (८१) आयरियउवज्झाए आयस्थि उवज्झायत्तंनिक्खिवेत्ता मेहणधम्मंपडिसेवेज्जा जावज्जीवाए तस्स तप्पतियां नो कप्पइ आयरियत्तं वा जाव गणावच्छिदियत्तं वा उद्दिसित्तए वा धारितएवा । मू. (८२) आयरियउवज्झाए आयरियउवज्झायत्तं निक्खिवेत्ता मेहुणधम्मं पडिसेवेज्ज तिन्नि संवच्छ्राणि तस्स तपत्तियं नो कप्पइ । आयरियत्तं वा जाव गणावछेदियत्तं वा उद्दिसित्तए वा रित्तए वा तिहिं संवच्छरेहिं वइक्कंतेहिं चउत्थगं संक्च्छरंसि प्पठियंसि उठियंसि ठियस्स उवसंतस्स उचरयस्स पडिवियरस्स । एवं से कप्पइ आयवित्तं वा जावं गणावच्चेदियत्तं वा उद्दिसित्तए वा धारेतए वा ।। वृ- अस्य सूत्रद्वयस्याप्यर्थो गणावच्छेदकसूत्रद्वयवद्भावनीयः । अत्र भाष्यकारः प्राह[भा. १६०७] एमेव गणायरिए निक्खिविणा नवरि तत्थ नाणत्तं । अयपालगसिरिधरिए जावज्जीवं अणरिहाउ ।। वृ- एवमेव अनेनैव प्रकारेण भिक्षुसूत्रभिवेत्यर्थः । गणेगणावच्छेदके आचार्ये आचार्योपाध्याये Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482