Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 445
________________ ४४४ पुनरिमानि वक्ष्यमाणानि स्थानानि प्रयत्नतो वर्जयेत् । तान्येवाहसदेससिस्सिणी सज्जतिया सिस्सणी कुलगणेया । संघेय कुलकन्नगा विहवा बहुगा य तहा सलिंगेणं ।। [भा. १५९९] वृ- सदेशा समानदेशजातिशिष्यिनी स्वहस्तदीक्षिता सज्जतिया भगिन्यादिका तथा शिष्यिनी कुले संघेच । किमुक्तं भवति ? समानकुलवर्तिनी समानगुणवर्तिनी समानसंघवर्तिनी च कुलकन्यका विधवा चं प्रतीता वधूका लघुकुलवधूर्वा एता परिहरेत् । अपरिहरतः प्रायश्चित्तं । तथा स्वलिङ्गेन सेवनान्यथा तत्रापिप्रायश्चित्त । [ भा. १६०० ] व्यवहार - छेदसूत्रम् - १-३ / ७८ लिंगंमि उचउभंगो पढमे भंगंमि होइ चरमपयं । मूलं चउत्थभंगे बितिए ततिए य भयणा उ ।। वृ- लिङ्गे लिङ्गविषये चतुर्भङ्गी तद्यथा-स्वलिंगेन स्वलिंगे वर्तमानां सेवते १, स्वलिङ्गेनान्यलिङ्गे २ अन्यलिङ्गेन स्वलिङ्गे ३, अन्यलिङ्गेनान्यलिङ्गे ४ तत्र प्रथमे भंगे सेवमानस्य भवति प्रायश्चित्तं चरमपदं पाराञ्चितलक्षणंचतुर्थे भङ्गेऽन्यलिङ्गेनान्यलिङ्गे इत्येवरूपे सेवमानस्य मूलं नाम प्रायश्चित्तं । द्वितीये तृतीये भङ्गेभावनीयं भजना । क्वचित् प्रायश्चित्तं तामेव विविक्षुः प्रथमभङ्गगतामपि भावनामाहसलिंगेन सलिंगे सेवंते चरमं तु होइ बोधव्वं । सलिंग अन्नलिंगे देवी कुलकन्नगाचरिमं ।। i [भा. १६०१ ] वृ- स्वलिङ्गेन स्वलिङ्गे वर्त्तमानायां यदि सेवते तदा तस्य भवति बोद्धव्यं प्रायश्चित्तं चरमं पाराञ्चितरूपं । स्वलिनान्यलिङ्गे इत्येर्वरूपेद्वितीये भङ्गे यदि सेवते देवीं राजाग्रमहिपीमुपलक्षणमेतत् । अन्थावा राजस्त्रियः कुलकन्यकांवा गाथायां विभक्तिलोपः प्राकृतत्वात् तदा प्रायश्चित्तंचरमं पाराञ्चित्तं । [ भा. १६०२ ] नवमं तु अमच्चीए विहवीए कुलच्चियाए मूलंतु । परलिंगे पासलिंगे सेवते होइ भयणाउ ॥ वृ- स्वलिङ्गेनामात्याया अमात्यभार्यायाः सेवनं प्रायश्चित्तं नवममनवस्थाप्यं विधवाया कुलच्चियाए इति कुलवध्वा उपलक्षणमेतत् अन्ययाश्चाविशेषितायाः प्राकृतस्त्रियाः सेवने मूलं पुनर्ब्रतारोपणं प्रायश्चित्तमुक्त्वा द्वितीयभङ्गे भजना तृतीये विवक्षुरिदमाह-परलिङ्गे स्वलिङ्गे वर्त्तमानाया सेवना भवति । इयं वक्ष्यमाणा भजना तामेवाह[भा. १६०३] सदेससिस्सणीए सज्जति कुलच्चियाए चरमं तु । नवमं गणच्चिया संघच्चियाए मूलं तु ।। वृ- सदेशायाः समानदेशोद्भवायाः तथा शिष्यिन्याः स्वहस्तदीक्षितायाः सज्जंती भगिनी तस्याः कुलच्चियाए इति समानकुलवर्तिन्यासेवने चरमं पारञ्चित्तं । समानगणवर्तिन्याः सेवनेन नवममनवस्थाप्यं समानसङ्घवर्तिन्या मूलं । सम्प्रति चतुर्थभङ्गभावनामाह [भा. १६०४] परलिंगेन परंमि उ मूलं अहवावि होइ भयणाउ । एएसिं भंगाणं जयणं वृच्छामि सेवाए ।। वृ- परलिङ्गेन परलिंगेन वर्त्तमानायां यदिसेवते तदा मूलं अथवा भवत्येतेषां भङ्गानां भजना विकल्पना क्वचिद्भङ्गे द्वितीयपदेन सेवा कर्तव्या क्वचिन्नेत्यर्थः । तत्रयस्मिन् भङ्गे सेवा कर्तव्या तत्र सेवायां यतनां वक्ष्यामि | तामेवाह— [ भा. १६०५ ] Jain Education International तत्थ विगिच्छाए विहिं निव्वितियमादियं अइक्कंते । उवभुत्तथेरसहितो अड्डाणादीसु तो पच्छा ।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482